________________
पद्मपुराणम् ।
द्वितीय पर्व । नमतीय समाजातपूर्णितादरपादपैः । हसतीव समुत्सर्पनिर्भरामलशीकरैः ॥ १०४ ॥ काजक्षिसंघानां जल्पतीव मनोहरं । भ्रमराणां निनादेन गायतीव मदश्रितां ॥ १०५ ॥ अलगतीव सर्वाशा समीरणसुगंधिना । नानाधातुप्रभाजालमंडितोत्तुंगश्रृंगके ॥ १०६ ॥ [हामुखसुखासीनं दृष्ट्वाननमृगाधिपे । धनपादपखंडाधःस्थितयूथपतिद्विपे ॥ १०७ ॥ महिना सर्वमाकाशसंच्छायेव व्यवस्थिते । पर्वतेष्टापदे रम्ये भगवानिव नाभिजः ॥ १०८ ॥ तत्रास्य जगती जाता योजनं परिमाणतः । नाम्ना समवपूर्वेण सरणेन प्रकीर्तिता ॥ १०९॥ आसनाभिमुखे तत्र जिने जितभवद्विषि । चुक्षोभ त्रिदशेंद्रस्य मृगेंद्रैरूढमासनं ॥ ११०॥ प्रभावात्कस्य मे कंपं सिंहासनमिदं गतं । इत्यालोक्य विवुधोसी ज्ञानेनावधिना ततः ॥११॥ आज्ञापयदनुज्ञातक्षणायातं कृतांजलिं । सेनापतिं यथा देवाः क्रियतामितिवदिनः ॥११२॥ जिनेंद्रो भगवान् वीरः स्थितो विपुलभूधरे । तद्वंदनाय युष्माभिः समेतैर्गम्यतामिति ॥ ११३ ॥ ततः शारदजीमूतमहानिचयसन्निभं । जंबूनदतटाघातपिंगकोटिमहारदं ॥ ११४ ॥ सुवर्णकच्छया युक्तं कैलाशमिव जंगमं । सरितारसजाजानां पिंजरांतं ततो यया ॥ ११५ ॥ मदांधमधुपश्रेणीश्रितगंडविराजितं । धूलीकदंबसंवादिसौरभ्यव्याप्तविष्टपं ॥ ११६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org