________________
१७
पद्मपुराणम् ।
द्वितीयं पर्व ।
यस्मिन् विहरणप्राप्ते योजनानां शतद्वये । दुर्भिक्षपरपीडानामीतीनां च न संभवः ॥ ९१ ॥ विद्यानां यः समस्तानां परमेश्वरतां गतः । विशुद्धस्फटिकच्छायं छायामपनयद्वपुः ॥ ९२ ॥ पक्ष्मस्पंदविनिर्मुक्ते प्रशांते यस्य लोचने । समा नखा महानील स्निग्धच्छायाश्च मूर्द्धजाः ॥ ९३ ॥ मैत्री समस्तविषया विहारानुगवायुना । विभूतिश्च प्रभोर्यस्य भुवनानंदकारणं ॥ ९४ ॥ सर्वर्तुफलपुष्पाणि धारयति महीरुहाः । यस्मिन्नासन्नमायाते धरणी दर्पणायते ॥ ९५ ॥ सुगंधिमरुतो यत्र योजनांतरभूतलं । कुर्वते पांसुपाषाणकंदकादिभिरुत्थितं ॥ ९६ ॥ विद्युन्माला कृताभिख्यैस्तदेव स्तनितामरैः । सुगंधिसलिलैः सिक्तं सोत्साहैर्यस्य सादरैः ||१७|| अप्रमेयमृदुत्वानि यस्य पद्मानि गच्छतः । धरण्यामुपजायते यस्य व्योमविहारिणः ॥ ९८ ॥ अत्यंतफल संपत्तिनम्रशाल्यादिभूषिता । धरिणी जायते तस्मिन्समेते सस्यकारणं ॥ ९९ ॥ शरत्सः समाकारं जायते विमलं नभः । धूमकादिविनिर्मुक्ता दिशस्तु सुखदर्शना ॥ १०० ॥ स्फुरितारसे कोण प्रभामंडलचारुणा । यत्पुरो धर्मचक्रेण स्थीयते जिनभानुना ॥ १०१ ॥ अवस्थानं चकारासौ विपुले विपुलाह्वये । नानानिर्झर निस्पंदमधुरारावहारिणि ॥ १०२ ॥ पुष्पोपशोभितोद्देशे लखालिंगितपादपे । अधित्यका सुविस्रब्धनिर्वैरव्यालसेविते ।। १०३ ।।
ર
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org