________________
पद्मपुराणम् ।
द्वितीयं पर्व ।
सुत्रामाप्रहितैर्यस्य कांतैः सुरकुमारकैः । कुमारचेष्टितैश्चारुविनीतैरिव सेवितं ।। ७८ ।। आनंदः परमां वृद्धिं येन सार्थमुपागतः । पित्रोर्बंधुसमूहस्य त्रयस्य भुवनस्य च ॥ ७९ ॥ यत्र जाते पितुः सर्वे नृपाश्चिरविरोधिनः । महाप्रभाव संपन्नाः जाताः प्रणतमस्तकाः ॥ ८० ॥ रथैर्मत्तगजेंद्रैश्च वायुवेगैश्च वाजिभिः । प्राभृतद्रव्यसंयुक्तैः क्रमेलककुलैस्तथा ॥ ८१ ॥ उद्धृष्टचामरच्छत्रवादनादिपरिच्छदैः । कांक्षद्भिः प्रतिसामंतैराजेंद्रालोकनोत्सवं ॥ ८२ ॥ नानादेशसमायातैर्महत्तर गणैस्तथा । पितुर्यस्यानुभावेन चुक्षोभ भवनाजिरं || ८३ || अल्पकर्मकलंकत्वाद्यस्य भोगेषु हारिषु । चित्तं न संगमायातैः पयःस्विव सरोरुहं ॥ ८४ ॥ विद्युद्विलासिताकारं ज्ञात्वा यः सर्वसंपदं । प्रवव्राज स्वयं बुद्धः कृतलौकांतिकागमः ॥ ८५ ॥ सम्यग्दर्शन संबोधचारित्रत्रितयं प्रभुः । यः समाराध्य चिच्छेद धातिकर्मचतुष्टयं ॥ ८६ ॥ संप्राप्य केवलज्ञानं लोकालोकावलोककं । धर्मतीर्थं कृतं येन लोकार्थं कृतिना मता ॥ ८७ ॥ अवाप्तप्रापणीयस्य कृतनिष्ठात्मकर्मणः । भास्करस्येव यस्याभूत्परकृत्याय चेष्टितं ॥ ८८ ॥ मलस्वेदविनिर्मुक्तं क्षीरसप्रभक्षोणितं । स्वाकारसंघसंघातं शक्त्या युक्तमनंतया ॥ ८९ ॥ चारुलक्षणसंपूर्ण हितसंमतभाषणं । अप्रमेयगुणाधारं यो बभार परं वपुः ॥ ९० ॥
Jain Education International
१६
For Private & Personal Use Only
www.jainelibrary.org