________________
१५
द्वितीयं पर्व ।
पद्मपुराणम् ।
त्यागस्य नार्थिनो यस्य पर्याप्तिं समुपागताः । प्रज्ञायाञ्च न शास्त्राणि कवित्वस्य न भारती ६५ साहसानि महिनो न नोत्साहस्य च चेष्टितं । दिगाननानि नो कीर्तिर्न संख्यागुणसंपदः ॥६६॥ चित्तानि नानुरागस्य जनस्याखिलभूतले । कला न कुशलत्वस्य न प्रतापस्य शात्रवः ।। ६७ ॥ कथमस्मद्विधेस्तस्य शक्यंते गदितुं गुणाः । यस्येंद्रसदसि ज्ञातं सम्यग्दर्शनमुत्तमं ॥ ६८ ॥ उद्धतेषु सता तेन वज्रदंडेन शत्रुषु । तपोधनसमृद्धेषु न मता चेतसायति ॥ ६९॥ रक्षिता वाहुदंडेन सकला तस्य मेदिनी । पुरस्य स्थितिमात्रं तु प्राकारपरिखादिकं ॥ ७० ॥ तत्पत्नी चेलनानामा शीलांबरविभूषणा । सम्यग्दर्शन संशुद्धा श्रावकाचारवेदिनी ॥ ७१ ॥ एकदा तु पुरस्यास्य समीपं जिनसत्तमः । श्रीमान्प्राप्तो महावीरः सुरासुरनतक्रमः ॥ ७२ ॥ मातुरप्युदरे यस्य दिककुमारी विशोधिते । ज्ञानत्रय समेतस्य सुखमासीत्सुरेंद्रजं ॥ ७३ ॥ जन्मनोर्वाक्पुरस्ताच्च यस्य शक्रनिदेशतः । अशयत्पितुः सद्म धनदो रत्नवृष्टिभिः ॥ ७४ ॥ जननाभिषवे यस्य नगराजस्य मूर्द्धनि । चक्रे महोत्सवो देवैराखंडलसमन्वितैः ॥ ७५ ॥ पादांगुष्टेन यो मेरुमनायासेन कंपयत । लेभे नाम महावीर इति नाकालयाधिपात् ॥ ७६ ॥ अमृतेन निषिक्तेन यस्यांगुष्टेऽमरेशिना । वृत्तिरासीच्छरीरस्य बालस्याबालकर्मणः ॥ ७७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org