________________
पद्मपुराणम् ।
द्वितीय पर्व । कलानां ग्रहणे चंद्रो लोकधृत्या धरामयः । दिवाकरः प्रतापेन कुवेरो धनसंपदा ॥५२॥ शौर्यरक्षितलोकोपि तयानुगतमानसः । लक्ष्म्यापि कृतसंबंधो न गर्वग्रहदूषितः ॥ ५३॥ जितजेयोपि नो शस्त्रव्यायामेषु पराङ्मुखः । विधुरेष्वप्यसंभ्रांतः प्रणतेष्वपि पूजकः ॥ ५४॥ रत्नभूतिरभूधस्य मलमुक्तेषु साधुषु । पृथिवीभेदविज्ञानं पाषाणशकलेषु तु ॥५५॥ क्रियासु दानयुक्तासु महासाधनदर्शनं । वृहत्कीटपरिज्ञानं मदोत्कटगजेषु तु ॥५६॥ सर्वस्याग्रेसरे प्रीतियशस्यत्यंतमुन्नता । जरत्तृणसमावृद्धिर्जीविते तु विनश्वरे ॥ ५७ ॥ प्रसाधनमतिः प्राप्तकराश्वासासु संततं । आत्मीयासु तु भार्यासु विवोधाश्चान्यपुत्रिका ।। ५८॥ गुणावनमिते चापे प्रतिपत्तिसहायजा । न पिंडमात्रसंतुष्ट भृत्यवर्गेपचारिणि ॥ ५९॥ वातोपि नाहरत्किचिद्यत्र रक्षति मेदिनी । प्रावर्तत न हिंसायां क्रूरा पशुगणा अपि ॥६०॥ वृषघातीनि नो यस्य चरितानि हरेरिव । नैश्चर्यचेष्टितं दक्षवगितापि पिनाकिवत् ॥ ६१ ॥ गोत्रनाशकरी चेष्टा नामराधिपतेरिव । नातिदंडग्रहप्रीतिर्दक्षिणाशाविभोरिव ॥ ६२ ॥ वरुणस्येव न द्रव्यं निस्त्रिंशग्राहरक्षितं । निःफला सन्निधिप्राप्ति!त्तराशापतेरिव ॥ ६३ ॥ बुद्धस्येव न निर्मुक्तमर्थवादेन दर्शनं । न श्री बहुलदोषोपघातिनी शीतगोरिव ॥ ६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org