________________
पंजपुराणम् ।
द्वितीय पर्व । तपोवनं मुनिश्रेष्ठेर्वेश्याभिः काममदिरं । लासकैर्नृत्तभवनं शत्रुभिर्यमपत्तनं ॥ ३९॥ शखिभिर्वीरनिलयोऽभिलाषमणिरार्थिभिः । विद्यार्थिभिर्गुरोः सद्म बंदिभिधूर्तपत्तनं ॥४०॥ गंधर्वनगरं गीतशास्त्रकौशलकोविदः । विज्ञानग्रहणोद्युक्तैर्मदिरं विश्वकर्मणः ॥४१॥ साधूनां संगमः सद्भिर्भूमिलाभस्य वाणिजैः । पंजरं शरणप्राप्ते वज्रदारुविनिर्मित ।। ४२ ॥ वार्तिकैरसुरच्छिद्रं विदग्धैर्विटमंडली । परिणामो मनोज्ञस्य कर्मणो मार्गवतिभिः ॥४३॥ चारणैरुत्सवावासः कामुकैरप्सरः पुरं । सर्वलोकश्च विदितं यत्सदा सुखिभिर्जनैः ।। ४४ ॥ यत्र मातंगगामिन्यः शीलवत्यश्च योषितः । श्यामाश्च पद्मरागिण्यो गौर्यश्च विभवाश्रयाः॥४५॥ चंद्रकांतशरीराश्च शिरीषसुकुमारिकाः । भुजंगानामगम्याश्च कंचुकावृतविग्रहाः ॥ ४६ ॥ महालावण्ययुक्ताश्च मधुरालापतत्पराः । प्रसन्नोज्ज्वलवक्त्राश्च प्रमादरहितेहिताः॥४७॥ कलत्रस्य पृथोर्लक्ष्मी दधतेथचतुर्विधाः । मनोज्ञा नितरां मध्ये सुवृत्ताश्चायतिं गताः ॥ ४८॥ लोकांतपर्वताकारं यत्र प्राकारमंडलं । समुद्रोदरनिर्भासपरिखाकृतवेष्टनं ॥४९॥ आसीत्तत्र पुरे राजा श्रेणिको नाम विश्रुतः । देवेंद्र इव विश्राणः सर्ववर्णधरं धनुः ॥ ५० ॥ कल्याणप्रकृतित्वेन यश्च पर्वतराजवत् । समुद्र इव मर्यादालंघनत्रस्तचेतसा ॥५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org