________________
पद्मपुराणम्।
द्वितीयं पर्व । उदरस्थकिशोराणां जवायैव प्रभंजनं । स्वच्छंदमापिवंतीनां वड़वानां गणैश्वितः ॥२६॥ (युग्मम्) चरद्भिर्हससंघातैर्धनैर्जनगुणैरिव । रवेणाकृष्टचेतोभिरत्यंतधवलः कचित् ॥ २७ ॥ संगीतखनसंयुक्तैर्मयूररव मिश्रितैः । यस्मिन्पुरजनिर्घोषैर्मुखरं गगनं सदा ॥ २८ ॥ शरनिशाकरस्वेतवृत्तैर्मुक्ताफलोपमैः । आनंददानचतुरैर्गुणवाद्भः प्रसाधितः ॥ २९ ॥ तर्पिताध्वगसंघातैः फलैर्वरतरूपमैः । महाकुटंविभिनित्यं प्राप्तोभिगमनीयतां ॥ ३० ॥ सारंगमृगसद्धमृगरोमभिरावृतैः । हिमवत्पाददेशीयैः कृतस्थैर्यो महत्तरैः ॥ ३१॥ हताः कुदृष्टयो यस्मिन् जिनप्रवचनांजनैः । पापकक्षं च निर्दग्धं महामुनितपोनिभिः ॥ ३२ ॥ तत्रास्ति सर्वतः कांतं नाम्ना राजगृहं पुरं । कुसुमामोदसुभगं भुवनस्यैव यौवनं ॥ ३३॥ महिषीणां सहस्रैर्यत्कुंकुमांचितविग्रहः । धर्मातःपुरनिर्मासं धत्ते मानसकर्षणं ॥ ३४ ॥ मरुदुद्धतचमरैर्वालव्यजनशोभितैः । प्रांतैरमरराजस्य छायां यदवलंबते ॥ ३५ ॥ संतापमपरैः प्राप्तैः कृतमीश्वरमार्गणैः । मनुजैर्यत्करोतीव त्रिपुरस्य जिगीषुतां ॥३६॥ सुधारससमासंगपांडुरागारपंक्तिभिः । टंककल्पितशीतांशुशिलाभिरिवकल्पितं ॥ ३७॥ मदिरामचवनिताभूषणस्वनसंभृतं । कुवेरनगरस्येव द्वितीयं सन्निवेशनं ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org