SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्वितीय पर्व । सारीकृतसमुद्देशः कृष्णसारैर्विसारिभिः । सहस्रसंख्यैर्गीर्वाणस्वामिनो लोचनैरिव ॥ १३ ॥ केतकीधूलिधवलाः यस्य देशाः समुन्नताः । गंगापुलिनसंकाशो विभांति जिनसेविताः॥१४॥ शाककंदलवाटेन श्यामलश्रीधरः कचित् । वनपाल कृतास्वादैर्नालिकेरैर्विराजितः ॥ १५ ॥ कोटिभिः शुकचंचूनां तथा शाखामृगाननैः । संदिग्धकुसुमैर्युक्तः पृथुभिः दाडिमीवनैः ॥१६॥ वत्सपालीकराघृष्टमातुलिंगीफलांभसा । लिप्ताः कुंकुमपुष्पाणां प्रकरैरुपशोभिताः ॥ १७ ॥ फलस्वादपयःपानसुखसंसुप्तमार्गगाः । वनदेवीप्रपाकाराः द्राक्षाणां यत्र मंडपाः ॥ १८ ॥ विलुप्यमानैः पथिकैः पिंडखजूरपादपैः । कपिभिश्च कृताचोटेर्मोचानां निचितः फलैः ॥१९॥ तुंगार्जुनवनाकीर्णतटदेशैर्महोदरैः । गोकुलाकलितादारस्वरवत्कूलधारिभिः ॥ २० ॥ विस्फुरच्छफरीनालैर्विकसल्लोचनैरिव । हसद्भिरिव शुक्लानां पंकजानां कदंवकैः ॥ २१ ॥ तुंगैस्तरंगसंघातैर्नर्तनप्रसृतैरिव । गायद्भिरिव संसक्तः हंसानां मधुरस्वनैः ॥२२॥ (त्रिभिर्विशेषक) सामोदजनसंघातसमासितसरित्तटैः । सरोमिसारसाकीर्णैर्वनरंध्रेषु भूषितः ॥२३॥ संक्रीडनैर्वपुष्मद्भिराविकोष्ट्रकतार्णकैः । कृतसंवाधसर्वाशा हितपालकपालकैः ॥ २४ ॥ दिवाकररथाश्वानां लोभनार्थमिवोचितैः । पृष्टैः कुंकुमपंकेन चलत्पोथपुटैर्मुखैः ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy