________________
एकादशं पर्व ।
२६७
आशीविषसमाशेषदृष्टतारकलोचनाः । आवृत्य सर्वतः क्षुब्धाः कृत्वा कलकलं महत् ।। २५४ ।। बध्वा परिकरं पापाः सूत्रकंठाः समुद्धताः । हस्तपादादिभिर्हेतुं वायसा इव कौशिकं ।। २५५ ।। नारदोऽपि ततः कांश्चिन्मुष्टिमुद्गरताड़नैः । पाणिनिर्घातपातैश्च कांश्चिदन्यान्यथागतान्।।२५६।। शस्त्रायमाणैर्निश्शेषैर्गात्रैरेव सुदुस्सहैः । द्विजान् जघान कुर्वाणो रेचकभ्रमणं बहून् ॥ २५७ ॥ अथ घ्नन् स चिरात्खिन्नः क्रूरैर्बहुभिरावृतः । गृहीतः सर्वगात्रेषु भंजन्नाकुलतां परां ॥ २५८ ॥ पक्षीव निविडं बद्धः पाशकैरतिदुःखितः । वियदुत्पतनाशक्तः संप्राप्तः प्राणसंशयं ।। २५९ ॥ एतस्मिन्नंतरे दूतो दाशवऋः समागतः । हन्यमानमिमं दृष्ट्वा प्रत्यभिज्ञाय नारदं ॥ २६० ॥ निवृत्य त्वरयात्यंतमेवं रावणमब्रवीत् । यस्यांतिकं महाराज ! दूतोहं प्रेषितस्त्वया ।। २६१ ॥ राज्ञः पश्यत एवास्य नारदो बहुभिर्द्विजैः । एकाकी हन्यते क्रूरैः शलभैरिव पन्नगः ॥ २६२ ॥ अशक्तस्तत्र राजानमहं दृष्ट्वा भयार्दितः । निवेदयितुमायातो वृत्तांतमिति दारुणं ।। २६३ ।। तमुदंतं ततः श्रुत्वा रावणः कोपमागतः । वितानधरिणीं गंतुं प्रवृत्तो जविवाहनः ।। २६४ || समीररंहसश्वास्य पुरःसंप्रस्थिता नराः । परिवारविनिर्मुक्तखड़ाः सूत्कार भासिनः ॥ २६५ ॥ निमेषेण मखक्षोणीं प्राप्ता दर्शनमात्रतः । विमोचयन्दयायुक्तो नारदं शत्रुपंजरात् ।। २६६ ।।
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org