________________
पद्मपुराणम् ।
एकादशं पर्व । यज्ञकल्पनया नैव किंचिदस्ति प्रयोजनं । अथापि स्यात्तथाप्येवं न कर्तव्या बुधोत्तमैः ॥ २४१ ॥ यजमानो भवेदात्मा शरीरस्तु वितर्दिकः । पुरोडाशस्तु संतोषः परित्यागस्तथा हविः ॥२४२॥ मूधेजा एव दभोणि दक्षिणा प्राणिरक्षणं । प्राणायामः सितं ध्यानं यस्य सिद्धपदं फलं ॥२४३।। सत्यं यूपस्ततो वह्निर्मानसं चपलं पशुः । समिधश्च हृषीकाणि धर्मयज्ञोयमुच्यते ॥ २४४ ॥ यज्ञेन क्रियते तृप्तिर्देवानामिति चेन्मतिः । तत्र तेषां यतोऽस्त्येव दिव्यमन्नं यथेक्षितं ॥ २४५॥ स्पर्शतो रसतो रूपाद्धायेषां मनोहरं । अन्नमस्ति किमतेन तेषां मांसादिवस्तुना ॥ २४६ ॥ शुक्रशोणितसंभूतममेध्यकृमिसंभवं । दुगंधदर्शनं मांस भक्षयंति कथं सुराः॥ २४७॥ त्रयोऽनयो वपुष्येव ज्ञानदर्शनजाठराः । दक्षिणाग्न्यादिविज्ञानं कार्य तेष्वेव सूरिभिः ॥ २४८ ॥ सुरा यदि हुतेनानौ तृप्ति यांति बुभुक्षिताः । श्वेतोनाम ततो देवस्तृप्ति किमिति नागतः।।२४९॥ ब्रह्मलोकाकिलागत्य दुर्गधं योनिजं वपुः । चखाद धांक्षगोमायुसारमेयसमो भवेत् ।। २५० ॥ लालाक्लिन्ने मुखे क्षिप्तं कथं वान्नं द्विजातिभिः । विट्पूर्णकुक्षिसंप्राप्तं तर्पयेत्स्वर्गवासिनः॥२५१॥ एवं ततो गदंतंतमनेकांतदिवाकरं । देवर्षितेजसा दीप्तं शास्त्रार्थज्ञानजन्मना ॥ २५२ ॥ ऋत्विरुपराजयोद्भूतक्रोधसंभारकंपिताः । वेदार्थाभ्यसनात्यंतदयानिर्मुक्तमानसाः ।। २५३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org