________________
पद्मपुराणम् ।
२६५
एकादशं पर्व । शरीरमथ नैवास्य विद्यते नैष सर्जकः । अमूर्तत्वाद्यथाकाशं तक्षवद्वा सविग्रहः ॥ २२८ ॥ यजनार्थ च स्रष्टानां पशूनां वाहनादिकं । क्रियमाणं विरुद्धयेत तद्धि स्तेयं प्रकल्प्यते ॥२२९॥ अतः कर्मभिरेवेदं रागादिभिरुपार्जितैः । वैचित्र्यं व्यश्नुते विश्वमनादौ भवसागरे ॥ २३० ॥ कर्म किं पूर्वमाहोश्विच्छरीरमिति नेदृशः । युक्तः प्रश्नो भवेन्नादौ बीजपादपयोर्यथा ॥२३१॥ अंतोऽपि तर्हि न स्याचेत्तन्न बीजविनाशतः । दृष्ट्वा हि पादपोद्भूतेरसंभूतिरिदं तथा ॥२३२॥ तस्माद्दिष्टेन केनापि प्राणिना पापकर्मणा । कुग्रंथरचनां कृत्वा यज्ञकर्म प्रवर्तितं ॥ २३३ ।। संप्राप्तोऽसि कुले जन्म बुद्धिमानसि मानवः । निवर्तस्व ततः पापादेतस्माद्व्याधकर्मणः २३१ यदि प्राणिवधः स्वर्गसंप्राप्तौ कारणं भवेत् । ततः शून्योभवेदेष लोकोऽल्पैरेव वासरैः ॥२३५॥ प्राप्तेन वापि किं तेन च्युतिर्यस्मात्पुनर्भवेत् । दुःखेन च समासक्तं सुखं स्वल्पं च बाह्यजं २३६ यदि प्राणिवधाद् ब्रह्मलोकं गच्छंति मानवाः । तस्यानुमतनात्कस्मात्पतितो नरके वसुः ॥२३७॥ उत्तिष्ठ भो वसो स्वर्ग बजेति कृतनिस्वनैः । सूत्रकंठैर्दुराचारैः स्वपराशुभकारिभिः ।। २३८ ॥ स्वपक्षानुमतप्रीतैरुपम्याद्यापि यद्विजैः । आहुतिः क्षिप्यते वह्नौ नितांतं क्रूरमानसैः॥२३९ ।। पिष्टेनापि पशुं कृत्वा निघ्नंतो नरकं गताः । संकल्पादशुभात्कैव कथेतरपशोवधेः ॥२४०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org