________________
पद्मपुराणम्।
२६४
एकादशं पर्व । एवमादि च बहेव गदितं दोषनोदनं । आगमेन ततोऽन्येन व्यभिचारोन्त्र विद्यते ॥ २१५॥ पशोर्मध्ये वधो वेद्याः प्रत्यवायाय कल्प्यते । तस्य दुःखनिमित्तत्वाद्यथा व्याधकृतो वधः २१६ स्वयंभुवा च लोकस्य सर्गो नेयर्ति सत्यतां । विचार्यमाणमेतद्धि पुराणतणदुर्बलं ॥ २१७ ॥ कृतार्थो यद्यसौ सृष्टौ तस्यां किं स्यात्प्रयोजनं । क्रीडेति चेत्कृतार्थोऽसौ न भवत्यर्भको यथा ।। साक्षादेव रतिं कस्मान्न सृजेत्स विनेतरैः । सृजतो वास्य के भावा व्रजेयुः करणादितां ॥२१९।। किंचोपकारिणः केचित् केचिद्वास्यापकारिणः । सुखिनः कुरुते कांश्चिद्येन कांश्चिञ्च दुःखिनः ॥ अथ नैव कृतार्थोसावेवं तर्हि स नेश्वरः । कर्मणा परतंत्रत्वाद्यथा कश्चिद्भवद्विधः ॥ २२१ ॥ सुबुद्धिनरयत्नोत्थसंस्थानाः कमलादयः। विशिष्टाकारयुक्तत्वाद्रथवेश्मादयो यथा ॥ २२२ ॥ यद्बुद्धिपूर्वका एते भविष्यति स ईश्वरः । इत्येतच न सम्यक्त्वं व्रजत्येकांतवादिनः ॥२२३ ॥ सुबुद्धिनरयत्नोत्थाः सर्वथा न रथादयः । व्यवस्थितं यतस्तत्र द्रव्यं चैवोपजन्यते ॥ २२४ ॥ क्लेशादियुक्तता चास्य व्यश्नुते तक्षकादिवत् । नामकर्म च मैवं स्यादीश्वरो यस्त्वयेष्यते २२५ विशिष्टाकारसंबद्धमीश्वरस्य पुनर्वपुः । ईश्वरांतरयत्नोत्थमिष्यते नो न निश्चयः ॥ २२६ ॥ अपरेश्वरयत्नोत्थमथैतदपि कल्प्यते । सत्येवमनवस्था स्यानच स्तस्याभिसर्जनं ॥ २२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org