________________
पद्मपुराणम् ।
एकादशंपर्व । क्षत्रियास्तु क्षतत्राणाद्वैश्याः शिल्पप्रवेशनात् । श्रुतात्सदागमाद्यतु द्रुतास्ते शूद्रसंज्ञिताः॥२०२॥ न जातिगर्हिताकाचिद्गुणाः कल्याणकारणं । व्रतस्थमपि चांडालं तं देवाब्राह्मणं विदुः २०३ विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पंडिताः समदर्शिनः ॥२०४ ।। चातुर्वर्ण्य यथान्यच्च चांडालादिविशेषणं । सर्वमाचारभेदेन प्रसिद्धिं भुवने गतं ॥ २.५ ॥ अपूर्वाख्यश्च धर्मो न व्यज्यते यागकर्मणा । नित्यत्वाव्योमवव्यक्तेरनित्यो वा घटादिवत् २०६ फलं रूपपरिच्छेदः प्रदीपव्यक्त्यनंतरं । दृष्टं यथेह चापूर्वव्यक्तिकालं फलं भवेत् ॥ २०७॥ शास्त्रेण चोदितत्वाच्च वेदीमध्ये पशोर्वधः । प्रत्यवायाय नेत्येतदयुक्तं येन तच्छृणु ॥ २०८ ॥ वेदागमस्य शास्त्रत्वमसिद्धं शास्त्रमुच्यते । तद्धियन्मातृवच्छास्ति सर्वस्मै जगते हितं ॥ २०९॥ प्रायश्चित्तं च निर्दोषे वक्तुं कर्मणि नोचितं । अत्र तूक्तं ततो दुष्टं तच्चेदमविधीयते ॥ २१० ॥ राजानं हंत्यसौ सोमं वीरं वा नाकवासिनां । सोमेन योयजेत्तस्य दक्षिणा द्वादशं शतं ॥२११॥ शोधयत्यत्र देवानां शतं वीरं प्रतर्पणं । प्राणानां दश कुर्वति यैकादशात्मनस्तु सा ॥ २१२ ॥ द्वादशी दक्षिणा या तु दक्षिणा सैव केवलं । इतरासां च दोषाणां व्यापारो विनिवर्तने ॥२१३॥ तथा च यशुर्मायमकृतोरोदवाहना । पादाभ्यामेनसस्तस्माद्विश्वस्मान्मुंचतानलः ॥२१४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org