________________
पद्मपुराणम् ।
एकादशं पर्व । कर्प्रभावश्च वेदस्य युक्त्यभावान युज्यते । कर्तृमत्त्वे तु संसाध्ये दृश्यवद्धेतुसंभवः ॥ १८९ ।। युक्तेश्च कर्तृमान् वेदः पदवाक्यादिरूपतः । विधेयप्रतिषेधार्थ युक्तत्वान्मैत्रकाव्यवत् ॥१९०॥ ब्रह्मप्रजापतिप्रायः पुरुषेभ्यश्च संभवः । श्रूयते वेदशास्त्रस्य नापनेतुं स शक्यते ॥ १९१ ॥ स्यात्ते मतिर्न कर्तारः प्रवक्तारः श्रुतेः स्मृताः । तथा नाम प्रवक्तारो रागद्वेषादिभिर्युताः॥१९२॥ सुसर्वज्ञाश्च किं कुर्युरन्यथा ग्रंथदेशनं । अर्थस्य वान्यथाख्यानं प्रमाणं तन्मतं यतः ॥ १९३॥ चातुर्विध्यं च यज्जात्या तत्र युक्तमहेतुकं । ज्ञानं देहविशेषस्य न च श्लोकाग्निसंभवात् ॥१९४॥ दृश्यते जातिभेदस्तु यत्र तत्रास्य संभवः । मनुष्यहस्तिवालेयगोवाजिप्रभृतौ यथा ॥ १९५ ॥ नच जात्यंतरस्थेन पुरुषेण स्त्रियां क्वचित् । क्रियते गर्भसंभूतिर्विप्रादीनां तु जायते ॥ १९६ ॥ अश्वायां रासभेनास्ति संभवोऽस्येति चेन सः । नितांतमन्यजातिस्थशफादितनुसाम्यतः ॥१९७॥ यदि वा तद्वदेवस्याद्वयोर्विसदृशः सुतः । नात्र दृष्टं तथा तम्माद्गुणैर्वर्णव्यवस्थितिः॥ १९८ ॥ मुखादिसंभवश्चापि ब्रह्मणो योऽभिधीयते । निर्हेतुः स्वगेहेऽसौ शोभते भाष्यमाणकः ॥ १९९ ॥ ऋषिशृंगादिकानां च मानवानां प्रकीत्यते । ब्राह्मण्यं गुणयोगेन न तु तद्योनिसंभवात् ॥२०॥ बृहत्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः । भक्ताः संतस्तु पश्यंति ब्राह्मणास्ते प्रकीर्तताः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org