________________
पद्मपुराणम्।
२६१
एकादशं पर्व। एतेन चानुमानेन प्रतिज्ञेयं विरोधिनी । अभावश्च ममात्यंत प्रसिद्धि न क्वचिद्गतः ॥१७६ ॥ सर्वज्ञः सर्वदृक् क्वासौ यस्यैष महिमा भुवि । दिव्यब्रह्मपुरे ह्येष व्योम्नात्मा सुप्रतिष्ठितः॥१७७॥ आगमेन तवानेन विरोधं याति संगरः । अनेकांते च साध्येऽर्थे भवेत्सिद्धप्रसाधकं ।। १७८ ॥ वक्तृत्वं सर्वथा युक्तं न परं प्रति सिद्धयति । असिद्धं च भवेत्स्वस्य स्याद्वादेन समागतं ॥१७९॥ नासावभिमतोऽस्माकं वक्तृत्वाद्देवदत्तवत् । इत्याद्यपि भवेत्सिद्धं विरुद्धं साधनं यतः ॥१८०॥ प्रजापत्यादिभिश्चायमुपदेशो न निश्चयः । तेऽप्येवमिति चैतेभ्यो दोषवानागमो भवेत् ॥१८१॥ एकं यो वेदते न स्याज्जातं सत्तात्मनाखिलं । अतः साध्यविहीऽनोयं दृष्टांतो गदितस्त्वया ॥ अथ चैकांतयुक्तोक्ति दृष्टांतो नो यतस्ततः । साध्यसाधनवैकल्यमुदाहार्य सधर्मिणि ॥ १८३॥ श्रुत्वा वस्तुन्यदृष्टे च प्रमाणं वेदमागतं । न समाश्रयणं युक्तं हेतोः सर्वज्ञदूषणे ॥ १८४ ॥ वक्तृत्वस्य विरोधो वा सर्वज्ञत्वेन कः समः । सति सर्वज्ञतायोगे वक्ताहि सुतरां भवेत् ॥१८५॥ यो न वेत्ति स किं वक्ति वराको मतिदुर्विधः । व्यतिरेकाविनाभावो भावाच्च स्यान्न साधनं ॥ स्वपक्षोयमविद्येयं तथा यागादिकं मलं । क्षीयतेऽलं क्वाचिद्धतार्धातुहेममलं यथा ॥ १८७ ॥ अमदादिमते धर्मे आपेक्षितविपर्ययः । धर्मत्वादुत्पलद्रव्ये यथा नीलविशेषणं ॥ १८८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org