________________
पद्मपुराणम् ।
एकादशं पर्व । अर्तिजीनं ततोऽवादीदहो माणवक ? त्वया । किमिदं प्रस्तुतं दृष्टं सर्वज्ञैर्दुःखकारणं ॥ १६३ ॥ संधर्ता कुपितोऽवोचदहोऽत्यंतविमूढता । यदत्यंतमसंबद्धं भाषसे हेतुवर्जितं ॥ १६४ ॥ भवतो यो मतः कोऽपि सर्वज्ञो रागवर्जितः । यत्कृत्वाद्युपपत्तिभ्यो नासावेवं यथेतरः ॥१६५॥ अशुद्धैः कर्तृभिः प्रोक्तं वचनं स्यान्मलीमसं । अनीदृशश्च नो कश्चिदुपपत्तेरभावतः ॥ १६६ ॥ तस्मादकर्तृको वेदः प्रमाणं स्यादतींद्रियैः । वर्णत्रयस्य यज्ञे च कर्म तेन प्रकीर्तितं ॥ १६७ ॥ अपूर्वाख्यो ध्रुवो धर्मो यागेन प्रकटीकृतः । प्रयच्छति फलं स्वर्गे मनोज्ञविषयोत्थितं ॥१६८॥ अंतर्वेदिपशूनां च प्रत्यवायाय नो वधः । शास्त्रण चोदितो यस्माद्यथा त्यागादिसेवनं ॥१६९॥ पशूनां च वितानार्थ कृता सृष्टिः स्वयंभुवा । तस्मात्तदर्थसर्गाणां को दोषो विनिपातने ॥१७०॥ इत्युक्ते नारदोऽवोचदवा निखिलं त्वया । भाषितं शृणु दुग्रंथभावनादूषितात्मना ॥१७१॥ यदि सर्वप्रकारोऽपि सर्वज्ञो नास्ति स त्रिधा । शब्दार्थबुद्धिभेदेन स्ववाचा स्थानतो हताः॥१७२।। अथ शब्दश्च बुद्धिश्च विद्यतेऽर्थस्तु नेष्यते । नैवमेतत्त्रयं दृष्टं यस्मात्सर्वगवादिषु ॥ १७३ ॥ असत्यर्थे नितांतं च कुरुते क्व पदं मतिः। शब्दो वा स तथाभूतो व्रजेद्धीवाग्व्यतिक्रमं ॥१७४॥ बुद्धेः सर्वज्ञ इत्येष व्यवहारो गुणागतः । मुख्यापेक्षो यथा चैत्रे सिंहशब्दप्रवर्तनं ॥१७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org