SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५९ एकादर्श पर्व। आनmलोकनगरे कात्यार्यामिदुमालिनी । शरणं भूरिसंवेगा भूतार्या चारुचेष्टिता ॥ १५० ॥ सत्कर्मा बालकश्चासौ रोदनादिविवर्जितः । ब्रजद्भिर्नभसादृष्टः सुरैर्जुभकसंज्ञकैः ॥ १५१ ॥ गृहीत्वा च कृपायुक्तैरादरात्परिपालितः । अध्यापितश्च शास्त्राणि सरहस्याण्यशेषतः ॥ १५२ ।। लेभे च लब्धवर्णः सन् विद्यामाकाशगामिनीं । यौवनं च परं प्रातः स्थितिं चाणुव्रती दृढा १५३ दृष्ट्वा च मातरं चिद्वैः प्रत्यभिज्ञानकारिणीं । तत्प्रीत्योपेत्य निग्रंथं सम्यग्दर्शनतत्परः ॥ १५४ ॥ प्राप्य क्षुल्लकचारित्रं जटामुकुटमुद्वहन् । अवहारसमो जातो न गृहस्थो न संयतः ॥ १५५ ॥ यश्च कादर्पकौत्कुच्यमौखर्यात्यंतवत्सलः । कलहप्रेक्षणाकांक्षी गीतचंचुः प्रभाववान् ॥ १५६ ॥ पूजितो राजलोकस्य परैख्याहतायतिः । चचार रोदसीं नित्यं कुतूहलगतेक्षणः ॥ १५७ ॥ देवैः संवर्धितत्वाच्च देवसनिभविभ्रमः । देवर्षिः प्रथितः सोऽभूद्विद्याविद्योतिताद्भुतः ॥ १५८ ॥ कथंचित्संचरंश्वासाविच्छया तां मखावनीं । समीपगगनोद्देशस्थितोऽपश्यज्जनाकुलां ॥ १५९ ॥ दृष्ट्वा च तान् पशून् बद्धान् समाश्लिष्टोऽनुकंपया । अवतीर्णो मखक्षोणी जल्पाकपथपंडितः १६० उवाचेति मरुतं च किं प्रारब्धमिदं नृप!। हिंसनं प्राणिवर्गस्य द्वारं दुर्गतिगामिनां ॥ १६१ ॥ उवाचासावसं वेत्ति सर्व शास्त्रार्थकोविदः । ऋत्विक् मम यदेतेन कर्मणा प्राप्यते फलं ॥१६२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy