________________
पद्मपुराणम् ।
२५८
एकादशं पर्व । कामक्रोधाभिभूतस्य मोहेनाक्रम्य ते मनः । कृत्यकृत्येषु मूढस्य मतिर्नस्याद्विवेकिनी ॥१३७॥ यत्किचित्कुर्वतस्तस्य कर्मोपार्जयतोऽशुभं । संसारसागरे घोरे भ्रमणं न निवर्तते ॥ १३८ ॥ एतान्संसर्गजान् दोषान्विदित्वाशुविपश्चितः । वैराग्यमधिगच्छंति नियम्यात्मानमात्मना॥१३९॥ एवं संबोधितो वाक्यैः परमार्थोपदेशनैः । उपेतः श्रामणी दीक्षा मोहाब्रह्मरुचिच्युतः ॥१४०॥ निरपेक्षमतिः कूया महावैराग्यसम्पदः । विजहार सुखं साधं गुरुणा गुरुवत्सलः ॥ १४१ ॥ सापि शुद्धमतिः कूर्मी कर्मणः कृष्णतश्युता । ज्ञात्वा रागवशं जंतोः संसारपरिवर्तनं ॥ १४२ ॥ कुमार्गसंगमुत्सृज्य जिनभक्तिपरायणा । सिंहीव शोभतेऽरण्ये भ; विरहिता सती ॥ १४३ ॥ मासे च दशमे धीरा प्रसूता दारकं शुभम् । अचिंतयच्च वीक्ष्यैनं ज्ञातकर्मविचेष्टिता ॥ १४४ ॥ संपर्कोयमनर्थोसौ कथितो यन्महर्षिभिः । तस्मान्मुक्त्वाधुना संगं करोमि हितमात्मने ॥१४५॥ अनेनापि भवेद्यास्मिन् यः कर्मविधिरर्जितः । फलं तस्य शिशुभॊक्ता मनोज्ञमभवेतरं ॥ १४६ ॥ अरण्यान्यां समुद्रे वा स्थितं वारातिपंजरे । स्वयंकृतानि कर्माणि रक्षति न परो जनः ॥१४७॥ यः स्वयं प्राप्तकालः स्याज्जन्मन्यंकगतोऽपि सः। हिपते मृत्युना जीवः स्वकर्मवशतां गतः १४८ एवं विदिततत्त्वा सा बुद्धयातिनिरपेक्षया । बालकं विपिने त्यक्त्वा तापसी वीतमत्सरा।।१४९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org