________________
पद्मपुराणम् ।
२६८
एकादशं पर्व।
निस्तूंशनरदैश्च रक्षिताः पशुसंहतीः । मोचितास्तै सहुंकारं चक्षुनिक्षेपमात्रतः ॥ २६७ ॥ भज्यमानस्ततो यूपैस्ताड्यमानैर्द्विजातिभिः । पशुभिर्मुच्यमानैश्च जातं सांराविणं महत् ॥२६८॥ अब्रह्मण्यकृता रावास्ताड्यंते तावदेकशः । यावनिपतिता भूमौ विप्रा निस्पंदविग्रहाः ॥ २६९ ॥ भटैश्च पर्यचोद्यंत यथा वो दुःखमप्रियं । सुखं च दयितं तद्वत्पशूनामपि दृश्यतां ॥ २७० ॥ यथाहि जीवितं कांतं त्रैलोक्यस्यापि भावतः । भवतां सर्वजंतूनामियमेव व्यवस्थितिः ॥२७१॥ भवतां ताड्यमानानां कष्टा तावदियं व्यथा । शस्त्रर्विशस्यमानानां पशूनां तु किमुच्यतां॥२७२॥ दुष्कृतस्याधुना पापाः सहध्वं फलमागतं । येन नो पुनरप्येवं कुरुध्वं पुरुषाधमाः ॥ २७३ ॥ सुत्रामापि समं देवैयद्यायाति तथापि न । अस्मत्स्वामिनि वः क्रुद्धे जायते परिरक्षणं ॥ २७४ ॥ अश्वैर्मतंगजैस्तत्स्थैः रथस्थैर्गगनस्थितैः । भूमिस्थैः पुरुषैरबैगहन्यते द्विजातयः ॥ २७५ ॥ अब्रह्मण्यमहो राजन् हा मातयेज्ञपालये । जीवामि मुंच मां नैवं करिष्यामि पुनर्भटाः ॥२७६॥ एवंविधमलं दीनं विलपंतो विचेष्टितं । गंडूपदा इव प्राप्ता समताड्यंत ते भटैः ॥ २७७ ॥ हन्यमानं ततो दृष्ट्वा सूत्रकंठकदंबकं । सहस्रकिरणग्राहमित्यवोचत नारदः ॥ २७८ ॥ कल्याणमस्तु ते राजन् येनाहं मोचितस्त्वया । हन्यमान इमैाधैः सूत्रकंठैर्दुरात्मभिः ॥२७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org