________________
पद्मपुराणम् ।
२५५
एकादर्श पर्व । प्रसीद मुंच निर्दोषानस्मान्देव ! महावल । भवदाज्ञां वयं सवा कुर्मः प्रणतमूर्तयः ॥ ९८॥ ततो बभाण तान् रक्षः यथैव पशवो हताः । भवद्भिरियति स्वर्ग तथा यूयं मया हताः ॥१९॥ इत्युक्त्वा विजने कांश्चिद्वीपेऽन्यस्मिनिरक्षिपेत् । महार्णवे परानन्यान् क्रूरपाणिगणांतरे॥१०॥ एकानास्फालयन क्षोणीधरमूर्ध्नि शिलातले । कुर्वन्बहुविधं शब्दं वासांसि रजको यथा ॥१०॥ दुःखेन मरणावस्था प्राप्तास्ते त्रस्तचेतसः । पितरौ तनयान भ्रातृन् स्मरंतो मृत्युमीयति॥१०२॥ तद्व्यापादितशेषा ये मूढाः कुग्रंथकंथया । रक्षसा दशितोऽहिंसायज्ञस्तैवृद्धिमाहृतः॥ १०३ ॥ हिंसायज्ञमिमं घोरमाचरंति न ये जनाः । दुर्गतिं ते न गच्छंति महादुःखविधायिनीं ॥ १०४ ॥ उदाहृतो मयापास्तहिंसायज्ञसमुद्भवः । श्रेणिकैनं पुराज्ञासीत् प्राज्ञो रत्नश्रवःसुतः ॥ १०५ ॥ अथ राजपुरं प्राप्तो रावणः स्वर्गसन्निभं । वहिर्यस्य मरुत्ताख्यो यज्ञवाटे स्थितो नृपः ॥१०६॥ हिंसाधर्मप्रवीणश्च संवर्को नाम विश्रुतः। ऋत्विक तस्मै ददौ कृत्स्नमुपदेशं यथाविधि ॥१०७॥ सूत्रकंठा पृथिव्यां ये सर्वे तेत्र निमंत्रिताः । पुत्रदारादिभिः सार्धमागता लोकवाहिताः॥१०८॥ सा तैयज्ञमही सर्वा वेदमंगलनिस्वनैः लाभाकांक्षाप्रसन्नास्यै वृता क्षुभ्यत्सुभूरिभिः ॥१०९ ॥ उपनीताश्च तत्रैव पशवो दीनमानसाः । वराकाः शतशो बद्धाः श्वसत्कुक्षिपुटा भयात् ॥११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org