________________
२५६
पद्मपुराणम् ।
एकादशं पर्व |
नारदोऽथांतरे यस्मिन्निच्छया नभसा व्रजन् । अपश्यद्यानपृष्टस्थो जनं तं तत्र संगतं ॥ १११ ॥ अचिंतयच्च दृष्ट्टैवं विस्मयाकुलमानसः । कुर्वन्विभ्रममंगस्य कुतूहलसमुद्भवं ।। ११२ ।। एतत्सुनगरं कस्य कस्य चेयमनीकिनी । इयं च सागराकारा प्रजाः कस्मादिह स्थिताः ॥ ११३॥ नगराणि जनौघाश्च वरूथिन्यश्च भूरिशः । मयेक्षांचक्रिरे जातु नेदृग्दृष्टो जनोत्करः ॥ ११४ ॥ कुतूहलादिति ध्यात्वा वर्णोऽसौ विहायसः । कर्मैतदेव तस्यासीद्यत्कुतूहलदर्शनं ।। ११५ ।। पप्रच्छ मागधेशोऽथ भगवन् ! कः स नारदः । उत्पत्तिर्वा कुतस्तस्य गुणा वा तस्य कीदृशाः || जगाद च गणाधीशः श्रेणिक ! ब्राह्मणोऽभवत् । नाम्ना ब्रह्मरुचिस्तस्य कूर्मी नाम कुटुंबिनी ॥ तापसेन सता तेन श्रितेन वनवासितां । एतस्यामाहितो गर्भः फलमूलादिवृत्तिना ॥ ११८ ॥ वीतसंगास्तमुद्देशमथाजग्मुर्महर्षयः । यांतो मार्गवशात्केऽपि संयमासक्तमानसाः ॥ ११९ ॥ विशश्रमुः क्षणं तस्मिन्नाश्रमे श्रमनोदिनि । अपश्यं दंपती तौच स्वाकारौ कर्मगर्हितौ ॥ १२० ॥ आपाडुरशरीरां च दृष्ट्वा योषां पुथुस्तनीं । कृशां गर्भभरम्लानां श्वसंतीं पन्नगीमिव ॥ १२१ ॥ संसारप्रकृतिज्ञानां श्रमणानां महात्मनां । कृपया संबभूवैतौ धर्म बोधयितुं मतिः ।। १२२ ।। तेषां मध्ये ततो ज्येष्ठो जगादमधुरं यतिः । कष्टं पश्यत नर्त्यते कर्मभिर्जतवः कथं ॥
I
१२३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org