________________
पद्मपुराणम् ।
२५४
एकादशं पर्व । सौत्रामणिविधानेन सुरापानं न दुष्यति । अगम्यागमनं कार्य यज्ञे गोसवनामनि ॥ ८५ ॥ मातृमेधे वधो मातुः पितृमेधे वधः पितुः । अंतर्वेदि विधातव्यं दोषस्तत्र न विद्यते ॥ ८६ ॥ आशुशुक्षणिमादाय पृष्टेकूर्मस्य तर्पयेत् । हविष्यजुह्वकाख्याय स्वाहेत्युक्त्वा प्रयत्नतः ॥ ८७ ॥ यदा न प्राप्नुयात्कूर्म तदा शुद्धद्विजन्मनः । खलतेः पिंगलाभस्य विक्लवस्य शुचौ जले ॥८॥ आस्यदनेवतीर्णस्य मस्तके कूर्मसन्निभे । प्रज्वाल्य ज्वलनं दीप्तमाहुतिं निक्षिपेद्विजः ॥ ८९॥ सर्व पुरुष एवेदं यद्भूतं यद्भविष्यति । ईशानो योमृतस्तस्य यदन्नेनातिरोहति ॥ ९० ॥ एवमेकत्र पुरुषे किं केनात्र विपाद्यते । कुरुतातो यथाभीष्टं यज्ञे प्राणिनिपातनं ॥ ९१ ॥ मांसस्य भक्षणं तेषां कर्तव्यं यज्ञकर्मणि । याजकेन पूतं हि देवोद्देशेन तत्कृतं ॥ ९२॥ एवंप्रकारमत्यंतपापकर्म प्रदर्शयन् । प्राणिनः प्रवणांश्चके राक्षसो धरणीतले ॥ ९३ ॥ श्रद्दधानस्ततो भूत्वा जंतवः सुखवांछया । हिंसायज्ञस्थली भूमि दीक्षिताः प्रविशंति ये ॥ ९४ ॥ काष्ठभारं यथा सर्व प्राध्वंकृत्य स तान् दृढू । भयोद्भूतमहाकंपान् चलत्तारकलोचनान् ॥९५॥ पृष्टस्कंधशिरोजंघान् पादाग्रस्थान विधाय खं । उत्पपात पतद्रक्तधारानिकरदुःखितान् ॥९६ ॥ ततस्ते विश्वरोदारं क्रोशंतोऽभिदधुः स्वरं । किमर्थ देव रुष्टोऽसि येनास्मान् हंतुमुद्यतः ॥९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org