SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २५३ ऐकादर्श पर्व । महापापभरांतो हिंसाधर्मप्रवर्तनात् । गतस्तमस्तमोऽभिख्यां पृथिवीं घोरवेदनां ॥ ७२ ॥ ततो धिग् धिग् ध्वनिस्तावज्जातः कलकलो महान् । जनानां पापभीतानामुद्दिश्य वसुपर्वतौ ॥ संप्राप्तो नारदः पूजामहिंसाचारदेशनात् । एवमेव हि सर्वेषां यतो धर्मस्ततो जयः ॥ ७४ ॥ पापः पर्वतको लोके धिग्धिग्दंड समाहतः । दुःखितः शोषयन् देहमकरोत्कुत्सितं तपः ॥ ७५ ॥ कालं कृत्वाऽभवत्क्रूरो राक्षसः पुरुविक्रमः । अपमानं च संस्मार धिग्दंडाधिकमात्मनः ॥७६॥ अचितयच्च लोकेन ममानेन पराभवः । कृतस्ततः करिष्यामि प्रतिकर्मास्य दुःखदं ॥ ७७ ॥ विधानं डंभचरितं कृत्वा कर्म करोमि तत् । यत्राशक्तो जनो याति तिर्यङ्गरकदुर्गतीः ॥ ७८ ॥ ततो मानुषद्वेषस्थो वाम स्कंधस्थ सूत्रकः । कमंडल्वक्षमालादिनानोपकरणावृतः ॥ ७९ ॥ हिंसाकर्मपरं शास्त्रं घोरं क्रूरजनप्रियं । अधीयानः सुदुष्टात्मा नितांतामंगलस्वरं ॥ ८० ॥ तापसान् दुर्विधान् बुद्धया सूत्रकंठादिकांस्तथा । व्यामोहयितुमुद्यतो हिंसाधर्मेण निर्दयः ॥ ८१ ॥ तस्य पक्षे ततः पेतुः प्राणिनो मूढमानसाः । भविष्यदुःखसंभाराः शलभा इव पावके ॥ ८२ ॥ तेभ्यो जगाद यज्ञस्य विधानार्थमहं स्वयं । ब्रह्मा लोकमिमं प्राप्तो येन सृष्टं चराचरं ।। ८३ ।। यज्ञार्थ पशवः सृष्टा स्वयमेव मयादरात् । यज्ञो हि भूत्यै स्वर्गस्य तस्माद्यज्ञे वधोऽवधः ||८४|| 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy