________________
पद्मपुराणम् ।
२५२ .
एकादशं पर्व । सत्येव श्रावितः सत्वं मह्यं तां च्छ दक्षिणां । इत्युक्तश्चावदद्राजा विनयानतमस्तकः ॥ ५९॥ अंब ! ते वचनादध करोम्यथ जुगुप्सितं । वद यत्ते स्थितं चित्ते मा कृथा मतिमन्यथा ॥६०॥ नमुदंतं ततोऽशेषं निवेद्यास्मै जगाद सा । पुत्रस्यानृतमप्येतदनुमान्यं त्वया मम ॥ ६१ ॥ जानतापि ततो राज्ञा नीतेन स्थिरतां पुनः । मूढ़सत्यगृहीतेन प्रतिपन्नं तयोदितं ॥ ६२ ॥ पुनरुक्तं प्रियं भूरि भाषित्वाशीः पुरस्सरं । आनर्छ निलयं तुष्टा भृशं स्वस्तिमती ततः ॥६३ ।। अथान्यस्य दिनस्यादौ गतौ नारदपर्वतौ । समीपं क्षितिपालस्य कुतूहलजनावृतौ ॥ ६४ ॥ चतुर्विधो जनपदो नानाप्रकृतयस्तथा । सामंता मंत्रिणश्वाशु विविशुर्जल्पमंडलं ॥६५॥ ततस्तयोः सतां मध्ये विवादः सुमहानभूत् । ब्रीहयोऽजा विवीजा ये पशवश्चेति वस्तुनि ॥६६॥ ततस्ताभ्यां वसुः पृष्टो यदुपाध्याय उक्तवान् । तत्त्वं वद महाराज ! सत्येन श्रावितो भवान् ६७ यदेतत्पर्वतेनोक्तं तदुपाध्याय उक्तवान् । इत्युक्ते स्फटिकं यातं वसोः क्षिप्रं महीतले ॥ ६८ ॥ नाज्ञासीत्किल तल्लोकः स्फटिकं गगने ततः । स्थितं सिंहासने तस्य विवेदेति ततोऽवदत् ॥६९॥ वसो ! वितथसामर्थ्यात्तव सिंहासनं गतं । भूमिमद्यापि ते युक्तं परमार्थनिवेदनं ॥ ७० ॥ ततो मोहमदाविष्ट स्तदैव पुनरभ्यधात् । प्रविष्टो धरणीं सद्यः सिंहासनसमन्वितः ॥ ७१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org