________________
पद्मपुराणम् ।
३५१
एकादशं पर्व |
अतिता वसुं दृष्टं बैलाद्य श्वो विनिश्वयः । भवितेत्यभिधायागात्पर्वतो मातुरतिकं ॥ ४६ ॥ तस्यै चाकथयन्मूलं कलहूस्यामिमानवान् । ततो जगाद सा पुत्र ! त्वया निगदितं मृषा ॥४७॥ कुर्वतोऽनेकशो व्याख्या मया तव पितुः श्रुतं । अजाः किलाभिधीयते ब्रीयो ये प्ररोहका : ४८ देशांतरं प्रयातेन मांसभक्षणकारिणा । मानाच्च वितथं प्रोक्तं तवेदं दुःखकारणं ॥ ४९ ॥ रसनाच्छेदनं पुत्र नियतं ते भविष्यति । अपुण्या किं करिष्यामि पतिपुत्रविवर्जिता ॥ ५० ॥ सस्मार पुरा प्रोक्तां वसुना गुरुदक्षिणां । न्यायभूतां गता चाशु वसोरंतिकमाकुला ॥ ५१ ॥ उपाध्यायीति चोदारमादरं विदधे वसुः । प्रणम्य च सुखासीनां पप्रच्छ रचितांजलिः ।। ५२ ।। उपाध्यायीति यच्छाज्ञामायाता येन हेतुना । सर्वे संपादयाम्याशु दुःखितेव च दृश्यते ।। ५३ ।। उवाच स्वस्तिमत्येवं नित्यं पुत्रास्मि दुःखिता । प्राणनाथपरित्यक्ता का वा स्त्री सुखमृच्छति ५४ संबंधो द्विविधो यौनः शास्त्रीपश्च तयोः परं । शास्त्रीयमेव मन्येहमयं मलविवर्जितः ।। ५५ । अतो नाथस्य मे शिष्यः पुत्र एव भवानपि । पश्यंतो भवतो लक्ष्मीं करोमिं धृतिमात्मन ||५६ || दक्षिणां च गृहीष्यामि पुरा प्रोक्तं चया सुत ! मया चोक्तं गृहीष्यामि कालेन्यऽस्मिन्निति स्मर ॥ सत्यं वदंति राजानः पृथिवीपालनोद्यताः । ऋषयस्नेहि भाष्यंते ये स्थिता जंतुपालने ॥ ५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org