________________
पद्मपुराणम् ।
एकादशं पर्व । तनुतां बोध्यमानायाः शोकस्तस्या गतः क्रमात् । द्विषतीव स्तुवाना च भर्तारं सा स्थिता गृहे ३३ एतस्मादेव चोदंताद्ययातिस्तत्त्वकोविदः । राज्यभारं वसोय॑स्य बभूव श्रमणो महान् ॥ ३४ ॥ सुप्रतिष्ठोऽभवद्राजा पृथिव्यां प्रथितो वसुः । नभःस्फटिकविस्तीर्णशिलास्थहरिविष्टरः ॥ ३५ ॥ समं पर्वतकेनाथ नारदस्यान्यदाऽभवत् । कथेयं शास्रतत्त्वार्थनिरूपणपरायणा ॥ ३६ ॥ जगाद नारदो दृद्भिः सर्वज्ञैः सर्वदर्शिभिः। द्विविधो विहितो धर्मः सूक्ष्मो दारविशेषतः ॥३७॥ हिंसया अनृतात्स्तेया दारसंगात्परिग्रहात् । विरतेव्रतमुद्दिष्टं भावनाभिः समन्वितं ॥ ३८॥ विरति सर्वतः कर्तुं ये शक्तास्ते महाव्रतं । सेवंतेऽणुव्रतं शेषा जंतवो गृहमाश्रिताः ॥ ३९ ॥ संविभागो तिथीनां च तेषामुक्तो जिनाधिपः । यज्ञाख्यावस्थितास्तस्मिन् मेदैः पात्रादिभिर्युतैः अजैर्यर्यष्टव्यमित्यस्य वाक्यस्यार्थों दयापरेः । अयं मुनिभिराख्यातो ग्रंथार्थ ग्रंथिभेदिभिः॥४१॥ अजास्ते जायते येषां नांकुर सति कारणे । सस्यानां यजनं कार्यमेतैरिति विनिश्चयः ॥ ४२ ॥ अजा पशव उद्दिष्टा इति पर्वतकोऽवदत् । तेषामालंभनं कार्य सच यागो विधीयते ॥४३॥ नारदः कुपितोऽवोचत्ततः पर्वतकं खलं । मैवं वोचः पतस्येवं नरके घोरवेदने ब४४ ॥ प्रतिज्ञा चाकरोदेवमावयोर्योवसीदति । वसु प्राश्निकमासाद्य तस्य जिहा निकृत्यते ॥ ४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org