________________
पद्मपुराणम् ।
२४९
एकाशं पर्व। पश्चादेमीति तेनोक्तमिति तस्यै जगाद सः । तदागमं च कांक्षत्यास्तस्या यातमहः क्षयं ॥२०॥ नायातः स दिनतिऽपि यदा तिमिरगहरे । तदा शोकभराक्रांता पतितासौ महीतले ॥ २१॥ चक्रवाकीव दुःखातो विलापं चाकरोदिति । हा हता मंदभाग्यास्मि प्राणानां स्वामिनोज्भिता ।। पापेन केनचिन्मृत्युं किमसौ प्रापितो भवेत् । किंवा देशांतरं यातः कांतः केनापि हेतुना ॥२३॥ सर्वशास्त्रार्थकुशलः किंवा वैराग्यमाश्रितः । सर्वसंगान्परित्यज्य प्रव्रज्यां समशिश्रयत् ॥ २४॥ विलापमिति कुर्वत्यास्तस्या सा रजनी गता । अन्वेष्टं पितरं चादावह्नः पर्वतको गतः ॥२५॥ दृष्ट्वा सरित्तटोद्याने दिनैः कैश्चिद्गुरुं मुनि । गुरोः संघसमेतस्य समीपे विनयस्थितं ॥ २६ ॥ आरादेव निवृत्त्याख्यन्मातरं च पिता मम । विप्रलब्धोऽभवन्ननः श्रमणैस्तत्परापणैः ॥ २७ ॥ ततोनिश्चयविज्ञाततदसंगमदुःखिता । कराभ्यां भृशमानाना स्तनावरुरुदत्स्वनं ॥ २८ ॥ नारदस्तमथ श्रुत्वा वृत्तातं धर्मवत्सलः । दृष्टुमागादुपाध्यायी क्षणं शोकसमाकुलः ॥ २९ ॥ तं दृष्टा सुतरां चक्रे स्तनताड़नरोदनं । निसर्गोयं यदाप्तस्य पुरः शोको विवर्धते ॥३०॥ जगाद नारदो मातः! किं शोकं कुरुषे वृथा । कृते शोकेऽधुना, नाऽसावागच्छति विशुद्धधीः ॥ कर्मणानुगृहीतोसौ चारुणा चारुचेष्टितः जीवितं चंचलं ज्ञात्वा यस्तपः कर्तुमुद्यतः ॥ ३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org