________________
पद्मपुराणम् ।
૨૪
देशम पर्व । यदि नाम भवेत्सारः कश्चिद्भोगेषु रावण । ततो नैवनमे त्यक्तास्तेस्युरुत्तमबुद्धिना ॥ १६७ ॥ इत्युक्त्वा तनये न्यस्य राज्यं परमनिश्चयः । क्षमितो दशवक्त्रेण प्राव्रजत्पितुरंतिके ॥ १६८ ॥ तेन चाभिहितः पूर्वमयोध्यायाः पतिः सुहृत् । अनरण्योऽनगारत्वं प्रपत्स्येहं यदा तदा।।१६९।। तुभ्यं वेदयितास्मीति तथायं तेन भाषितः । ज्ञापनार्थमतोऽनेन तस्मै संप्रेषिता नराः ॥१७॥ ततोऽसौ कथिते पुंभिः श्रुत्वा वाष्पाकुलेक्षणः । विललाप चिरं स्मृत्वा गुणांस्तस्य महात्मनः ॥ विषादे च गते मांद्यमित्युवाच महाबुधः । बंधस्तस्य समायातो रिपुवेषेण रावणः ॥ १७२ ॥ ऐश्वर्यपंजरांतस्थो विषयैर्मोहितश्चिरं । येनात्यंतानुकूलेन नरपक्षी विमोचितः ॥ १७३ ॥ माहिष्मतीपतिर्धन्यः सांप्रतं यो भवार्णवं । तितीर्षति यमध्वंसबोधपोत समाश्रितः॥१७॥ कृतार्थः सांप्रत जातो यदंतेऽत्यंतदुःखदं । पापं राज्याख्यमुज्झित्वा व्रतं जैनेश्वरं श्रितः॥१७५॥ अभिनंद्येति संविग्नः क्षिप्त्वा लक्ष्मी शरीरजे । सुतेन ज्यायसा साकमनरण्योऽभवन्मुनिः॥१७६॥
येन केनचिदुदात्तकर्मणा कारणेन रिपुणेतरेण वा ॥ निर्मितेन समवाप्यते मतिः श्रेयसी न तु विकृष्टकर्मणा ।। १७७ ॥ यः प्रयोजयति मानसं शुभे यस्य तस्य परमः स बांधवः ॥ भोगवस्तुनि तु यस्य मानसं यः करोति परमारिरस्य सः॥ १७८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org