________________
पद्मपुराणम् ।
२४५
दशमं पर्व । भूचरान्मानुषाओतुं यो न शक्तः स खेचरान् । कथं जेष्यामि विद्याभिः कृतनानाविचेष्टितान् ॥ वशीकरोम्यतस्तावद्भूचरान्मानशालिनः । ततो विद्याधराधीशं सोपानक्रमयोगतः ॥ १५५ ॥ ततो वशीकृतस्यास्य मुक्तिाय्यैव किं पुनः । भवत्स्वाज्ञां प्रयच्छत्सु पुण्यवदृश्यमूर्तिषु।।१५६॥ अथेंद्रजिदुवाचेदं साधु देवेन भाषितं । को वा नयविदं नाथं मुक्त्वा जानाति भाषितुं ॥१५७॥ ततो दशमुखादिष्टो मारीचोऽधिकृतैनरैः । आनाययत्सहस्रांशुं ननसायकपाणिभिः ॥ १५८ ॥ तातस्य चरणौ नत्वा भूमौ चासावुपाविशत् । सम्मान्य च दशास्येन विरोषेणेति भाषितः१५९ अद्यप्रभृति मे भ्राता तुरीयस्त्वं महाबलः । जेष्यामि भवता साकं कृताखंडलविभ्रम ॥ १६० ।। स्वयंप्रभां च ते दास्ये मंदोदर्याः कनीयसीं । कृतं यद्भवता तच्च प्रमाणं मे वराकृते ॥ १६१॥ सहस्ररश्मिरूचे च धिङ् मे राज्यमशाश्वतं । आपातमात्ररम्यांश्च विषयान् दुःखभूयसः ॥१६२॥ स्वर्ग धिग् द्युतियोगेन धिग्देहं दुःखभाजनं । धिङ् मां वंचितमत्यतं चिरकालं कुकर्मभिः १६३ तत्करोमि पुनर्येन न पतामिभवार्णवे । गतिष्वंत्यंतदुःखासु निर्विण्णः पर्यटन्नहं ॥ १६४ ॥ उवाचेति दशास्यश्च ननु प्रवयसां नृणां । प्रव्रज्यां शोभते भद्र ! त्वं च प्रत्यग्रयौवनः ॥१६५॥ सहस्रांशुरुवाचेति नैव मृत्युर्विवेकवान् । शरद्घन इवाकस्मादेहो नाशं प्रपद्यते ॥ १६६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org