________________
पद्मपुराणम् ।
૨૪૪
दश पर्व
कृतप्रत्यंगकर्माणं सभामध्ये सुखस्थितं । प्रशांतमानसः प्राप रावणं लोकवत्सलः ॥ १४१ ॥ दूरादेव ततो दृष्ट्वा मुनिं कैलाशकंपनः । अभ्युतस्थौ प्रणामं च चक्रे भूमिस्थमस्तकः ॥ १४२ ॥ वरासनोपविष्टे च यतौ भूमावुपविशत् । करद्वयं समासाद्य विनयानतविग्रहः ।। १४३ ॥ जगाद चेति भगवन् ! कृतकृत्यस्य विद्यते । न तवागमने हेतुर्विहाय मम पावनं ॥ १४४ ॥ ततः प्रशंसनं कृत्वा कुलवीर्यविभूतिभिः । क्षरन्निवामृतं वाचा जगादेति दिगंबरः ॥ १४५ ॥ आयुष्मन्निदमस्त्येव शुभसंकल्पतस्तव । नांतरीयकमेतत्तु वदामि यदिदं शृणु ।। १४६ ॥ पराभिभवमात्रेण क्षत्रियाणां कृतार्थता । यतः सहस्रकिरणं ततो मुंच ममांगजं ॥ १४७ ॥ संप्रधार्य ततः सार्धमिंगितैरेव मंत्रिभिः । उवाच कैकसीपुत्रः प्रणतो मुनिपुंगवं ॥ विज्ञापयामि नाथाहं प्रस्थितः खेचराधिपं । वशीकर्तुं श्रियामत्तं कृतास्मत्पूर्वजागसं ॥ १४९ ॥ तत्र जाते हि रेवायां रम्यायां जिनपूजनं । मया तटस्थचक्रेण कृतं विमलसैकते ॥ १५० ॥ महोपकरणैश्वास नीता पूजा सुरंहसा । सहसा पयसा यंत्ररचितेनास्य भोगिनः ॥ १५१ ॥ ततो मया जिनेंद्रार्चाध्वंसोद्भूतमहारुषा । कृतं कर्मेदमर्थेन न विना द्वेष्मि मानवान् ॥ १५२ ॥ नचानेनोदितं मह्यं संप्राप्ताय प्रमादिना । यथा ज्ञातं मया नेदं क्षम्यतामिति मानिना ॥ १५३ ॥
१४८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org