________________
२४३
पद्मपुराणम् ।
शमं पर्व। वत्स ! तावद्धनुर्वेदमधीष्य कुरु च श्रमं । ततो मया समं युद्धं करिष्यसि नयोज्झतः ॥ १२८ ॥ ततः परुषवाक्येन प्राप्तः संरंभमुत्तमं । विभेद यक्षमर्दस्तं कुंतेनालिकपटके ॥ १२९ ॥ गलद्रुधिरधारोसौ घूर्णमाननिरीक्षणः । मोहं गत्वा समास्वस्थो यावद्गुण्हति सायकं ॥ १३० ॥ तावदुत्पत्य वेगेन तमष्टापदकंपनः । अनुज्झितमहो धैर्य जीवग्राहं गृहीतवान् ॥ १३१ ॥ नीतः स्वनिलयं बद्धा खगैदृष्टः सविस्मयैः । यदि नामोत्पतेत्सोपि केन गृह्यत जंतुना ॥१३२॥ सहस्ररश्मिवृत्तांतादिव नीतिमुपागतः । सहस्ररश्मिरैदस्तं संध्याप्राकारवेष्टितः ॥ १३३ ॥ दशवक्त्रविमुक्तेन कोपेनेव च भूरिणा । तमसा पिहितो लोकः सदसत्समताकृता ॥ १३४ ॥ ततो रणादिव प्राप्तमत्यंतविमलं यशः । शशांक बिंबमुद्योतं तमोहरणपंडितं ॥ १३५ ॥ व्रणभंगविधानेन भटानां वीर्यवर्णनैः । गवेषणैश्च भिन्नानां निद्रया चाक्षतात्मनां ॥ १३६ ॥ गता राक्षससैन्यस्य रजनी सा यथायथं । विबुद्धश्च दशग्रीवः प्रभाताहततूयेतः ॥ १३७॥ ततो वार्तामिव ज्ञातुं दशवक्त्रस्य भास्करः । विभ्राणं परमं रागं कंपमानः समागतः ॥ १३८ ॥ शतवाहुरथ श्रुत्वा सुतं बद्धं निरंवरः । जंघाचारणलब्धीशो महाबाहुर्महातपाः ॥ १३९ ॥ रजनीपतिवत्कांतो दीप्तस्तिग्ममरीचिवत् । मेरुवत्स्थैर्यसंपन्नो धीरो रत्नालयो यथा ॥ १४० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org