________________
पद्मपुराणम् ।
दशमं पर्व ।
भंगासनं ततः सैन्यं निजं वीक्ष्य परै द्रुतं । सहस्ररश्मिरारुह्य रथमुध्वंसमागतः ॥ ११५ ॥ किरीटी कवची चापि तेजो विभ्रदनुत्तमं । विद्याधरबलं दृष्ट्वा स न विभ्ये मनागपि ।। ११६ ।। स्वामिनाधिष्ठिताः संतस्ततः प्रत्यागतौजसः । उद्भूर्णविस्फुरच्छत्रा विस्मृतक्षतवेदनाः ॥ ११७ ॥ प्रविष्टाः रक्षसां सैन्यं रणशौंडा महीचराः । स्तंवेरमा इवोद्भूतमदा गंभीरमर्णवं ॥ ११८ ॥ ततः सहस्रकिरणो विभ्राणः कोपमुन्नतं । परांविक्षेप वाणोधैर्घनानिव सदागतिः ॥ ११९ ॥ प्रतीहारेण चाख्यातमिति कैलाशकंपिने । देव पश्य नरेंद्रेण केनाप्येतेन ते बलं ।। १२० ।। धानुष्केन रथस्थेन पश्यता तृणवज्जगत् । योजनं यावदध्वानं शरौघैरपसारितं ॥ १२१ ॥ ततोऽभिमुखमायातं तमालोक्य यमार्दनः । आरुह्य त्रिजगद्भूषनामानं मत्तवारणं ॥ १२२ ॥ परैरालोकितो भीतैर्विमुक्तशरसंहतिः । सहस्रकिरणं चक्रे विरथं दुस्सहद्युतिः ॥ १२३ ॥ ततः सहस्रकिरणः समारुह्य द्विपोत्तमं । अभीयाय पुनः क्रुद्धस्तरसा राक्षसाधिपं ॥ १२४ ॥ सहस्ररश्मिना मुक्ता वाणाः निर्भिद्य कंकटं । अंगानि दशवक्त्रस्य विभिदुर्निशिताननाः ॥ १२५ ॥ रत्नश्रवः सुतेनास्तान्वाणानाकृश्य देहतः । सहस्रकिरणो हासं कृत्वेत्यवददुन्नतं ॥ १२६ ॥ अहो रावण धानुष्को महानसि कुतस्तव । उपदेशोऽयमायाता गुरोः परमकौशलात् ॥ १२७ ॥
Jain Education International
२४२
For Private & Personal Use Only
www.jainelibrary.org