________________
पद्मपुराणम् ।
दशमं पर्व। दृष्टा परवलं प्राप्तं सहस्रकिरणः क्षणात् । क्षुब्धो दत्वाभयं स्त्रीणां निर्जगाम जलाशयात् ॥१०२॥ ततः कलकलं श्रुत्वा विदित्वा च नरोघतः । सनह्य नियेयुर्वीरा माहिष्मत्या ससंभ्रमं ॥ १०३ ॥ गजवाजिसमारूढाः पादातेन समावृता । रथारूढाश्च सामंता विविधायुधधारिणः ॥ १०४ ॥ सहस्रकिरणं प्राप्ता नितांतमनुरागिणः । ऋतवः क्रमनिर्मुक्ताः सम्मेदमिव पर्वतं ॥ १०५ ॥ आपत्तीं ततो दृष्ट्वा विद्याधरवरूथिनीं । सहस्ररश्मिसामंतास्त्यक्त्वा जीवितलोभितां ॥१०६॥ विरचटय घनव्यूहमन्योन्यं पालनोद्यताः। विनापि भर्तृवाक्येन सोत्साहा योद्धुमुत्थिताः ॥१०७॥ बले च राक्षसेशस्य रणं कर्तुं समुद्यते । विचेरुरंबरे वाचः सुराणामिति सत्त्वराः ॥ १०८॥ अहो महानयं वीरैरन्यायः कर्तुमीप्सितः । भूगोचरैः समं यो मुद्यता यन्नभश्चराः ॥ १०९॥ अमी भूगोचराः स्वल्पा वराका ऋजुचेतसः । विद्यामायाकृतोऽत्यंत बहवश्व नभश्वराः ॥११०॥ इति श्रुत्वाथ खे शब्दं पुनरुक्तं समाकुलं । त्रपायुक्ता भुवं याताः खेचराः साधुवृत्तयः ॥१११॥ असिवाणिगदापासरथ जघ्नुः परस्परं । तुल्यप्रतिभटारब्धे रणे रावणमानवाः॥११२॥ रथिणो रथिभिः सार्ध तुरंगास्तुरगैरमा । साकं गजैर्गजा सत्रा पादातं च पदातिभिः ॥ ११३॥ न्यायेत योद्धमारब्धाः क्रमानीतपराजयाः । शस्त्रसंपातनिश्शेषसमुत्थापितवह्नयः ॥ ११४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org