________________
२४०
पद्मपुराणम् ।
देशमं पर्व। स्थापयित्वा घनामोदसमाकृष्टमधुव्रतैः । धूपैरालेपनैः पुष्पैमनोहबहुभक्तिभिः ॥ ८९ ॥ विधाय महतीं पूजां सन्निविष्टः पुरोवनौ । सगर्भवदनं चक्रे पूतैःस्तुत्यक्षरैश्चिरं ॥ ९ ॥ अकस्मादथ पूरण हता पूजा समंततः । फेनवुवुदयुक्तेन कलुषेण तरस्विना ॥ ९१ ॥ ततो दशाननः क्षिप्रं गृहीत्वा प्रतियातनां । क्रुद्धो जगाद किंत्वेतदिति विज्ञायतामरं ॥ ९२ ॥ ततोऽनुसृत्य वेगेन नरैः प्रतिनिवृत्त्य च । निवेदितमिदं नाथ कोप्ययं पुरुषो महान् ॥ ९३ ॥ मध्ये ललामनारीणां ललामपरमोदयः । दूरस्थेन नृलोकेन वेष्टितः खड्गधारिणा ॥ ९४ ॥ नानाकाराणि यंत्राणि बृंहति सुबहूनि च । विद्यते तस्य नूनं तैः कृतमेतद्विचेष्टितं ॥ ९५॥ व्यवस्थामात्रकं तस्य पुरुषा इति नो मतिः। अवष्टंभस्तु यस्तस्य स एवान्यस्य दुस्सहः।। ९६ ॥ वातया श्रूयते कोऽपि शक्तः स्वर्गे तथा गिरौ । अयं तु वीक्षितोऽस्माभिः शुनासीरः समक्षतः९७ श्रुत्वा संकुचितभ्रूश्च रवं मुरजसंभवं । वीणावंशादिभियुक्तं जयशब्दविमिश्रितं ॥ ९८ ॥ गजवाजिनराणां च ध्वनिमाज्ञापयन्नृपान् । त्वरितं गृह्यतामेष दुरात्मेति दशाननः ॥ ९९ ।। दत्वा चाज्ञां पुनश्चक्रे पूजां रोधसि सत्तमां । रत्नकांचननिर्माणैः पुष्पैर्जिनवराकृतौ ॥ १० ॥ शेषामिव दशास्याज्ञां कृत्वा शिरसि संभ्रमात् । अभ्यमित्रं सुसन्नद्धाः प्रससुर्योमगाधिपाः१०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org