________________
पद्मपुराणम् ।
२३९
दशमं पर्व ।
दर्शनात्स्पर्शनात्को पात् प्रसादाद्विविधोदितात् । प्रणामाद्वारिनिक्षेपादवतंसकताडनात् ॥ ७६ ॥ वंचनादंशुकाक्षेपान्मेखलादामबंधनात् । पलायनान्महारावात्संपर्कात्कुचकंपनात् ॥ ७७ ॥ हासाद्भूषणनिक्षेपात्प्रेरणाद्भ्रूविलासतः । अंतर्द्धानात्समुद्भूतेरन्यस्माच्च सुविभ्रमात् ।। ७८ ।। रेमे बहुसं तस्यां स मनोहरदर्शनः । आवृतो वरनारीभिर्देवीभिरिव वासवः ॥ ७९ ॥ पतितान् सिकतापृष्ठे नालंकारान्पुनः स्त्रियः । आचकांक्षुर्महाचित्ता निर्माल्यस्रग्गुणानिव ॥८०॥ काचिच्चंदनलेपेन चकार धवलं जलं । अन्या कुंकुमपंकेन द्रुतचामीकरप्रभं ॥ ८१ ॥ ataniबुलरागाणामधराणां सुयोषितां । चक्षुषां व्यंजनानां च लक्ष्मीरभवदुत्तमा ।। ८२ ॥ पुनश्च यंत्रनिर्मुक्तं वारिमध्ये यथेप्सितं । रेमे समं वरस्त्रीभिर्नरेशस्तरु हेतुभिः ॥ ८३ ॥ क्रीडतीभिर्जले स्त्रीभिर्भूषणानां वरो वः । शकुंतेष्विव विन्यस्तः कुलकी लालचारिषु ॥ ८४ ॥ रावणोऽपि सुखं स्नात्वा वसानो धौतवाससी । विधाय प्रयतो मूलं शुक्लकर्पटसंयुतं ।। ८५ ।। निर्युक्तैः सर्वदा पुंभिरुह्यमानां प्रयत्नतः । प्रतिमामर्हतोरत्नमनिर्मितविग्रहां ॥ ८६ ॥ तरंगिणीज रम्ये पुलिने शुभ्रभासुरे । सिकतारचितो तुंगपीठबंधविराजिते ॥ ८७ ॥ वैडूर्यदंडिकासक्तमुक्ताफलवितानके । सर्वोपकरणव्यग्र परिवर्गसमावृते ।। ८८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org