________________
पद्मपुराणम् ।
२३८
प्रशमं पर्व ।
उग्रनक्रकुलाक्रांतां गंभीरां वेगिनी क्वचित् । क्वचिच्च प्रस्थितां मंदं क्वचित्कुंडलगामिनीं।।६३॥ नानाचेष्टितसंपूर्णा कौतुकव्याप्तमानसः । अवतीर्णः स तां भीमां रमणीयां च सादरः ।। ६४ ॥ माहिष्मतीपुरेशोऽथ बलेन प्रथितो भुवि । सहस्ररश्मिरप्येतामवतीर्णोऽन्यया दिशा ॥६५॥ सहस्ररश्मिरैवैष सत्यं परमसुंदरः । सहस्रं तस्य दाराणां यदत्यंतसुतेजसां ॥ ६६ ॥ जलयंत्राणि चित्राणि कृतानि वरशिल्पिभिः । समाश्रित्य स रेमेस्यामद्भुतानां विधायकः॥६७॥ सागरस्यापि संरोद्धमंभः शक्तैनरैर्वतः। यंत्रसंवाहनाभिज्ञैः स्वेच्छयास्यां चचार सः॥ ६८॥ जले यंत्रप्रयोगेण क्षणेन विधृते सति । भ्रमंति पुलिने नार्यो नानाक्रीडनकोविदाः ॥ ६९ ॥ कलत्रनिबिडाश्लिष्टसुसूक्ष्मविमलांशुकाः । बभूवुः सत्रपा दृष्ट्वा रमणेन वरांगनाः ॥ ७० ॥ विगतालेखना काचित्कुचौ नखपदांकितौ । दर्शयंती चकारेण्या प्रतिपक्षस्य कामिनी ॥ ७१ ॥ काचिदृश्यसमस्तांगा वरयोषित्त्रपावती । अभिप्रियं निचिक्षेप कराभ्यां जलमाकुला ॥ ७२ ॥ प्रतिपक्षस्य दृष्ट्वान्या जघने करजक्षतीः । लीलाकमलनालेन जघान प्रमदा प्रियं ॥ ७३ ॥ काचित्कोपवती मौनं गृहीत्वा निश्चला स्थिता । पत्या पादप्रणामेन दयिता तोषमाहृता॥७४॥ यावत्प्रसादयत्येकां तावदेत्य परा रुषं । यथाकथंचिदानिन्ये तोषं सर्वाः पुनर्नृपः ॥ ७५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org