________________
२३७
पद्मपुराणम् ।
दशमं पर्व ।
एते चान्ये च बहवः स्वजना रणकोविदाः । सिद्धविद्यामहाभासः शस्त्रशास्त्रकृतश्रमाः ॥ ५० ॥ महासाधनसंपन्ना द्देपर्यंतः सुरश्रियं । अनुजग्मुरतिप्रीता रावणं पृथुकीर्तयः ॥ ५१ ॥ ततो विंध्यति तस्य जगामास्तं दिवाकरः । वैलक्ष्यादिव निच्छायो जितो रावणतेजसा ॥ ५२ ॥ उत्तमांगेन विंध्यस्य तेन सैन्यं निवेशितं विद्याबलसमुद्भूतैर्नानाकृतसमाश्रयं ॥ ५३ ॥ प्रदीप इव चानीतः क्षपया तस्य भीतया । करदूरीकृतध्वांतपटलो रोहिणीपतिः ॥ ५४ ॥ तारागणशिरःपुष्पा शशांकवदना निशा । प्राप्ता वरांगनेवैतं विमलांबरधारिणी ।। ५५ ।। संकथाभिर्विचित्राभिर्व्यापारैश्च तथोचितैः । सुखेन रजनी नीता निद्रया च नभश्वरैः ।। ५६ ।। ततः प्रभाततूर्येण मंगलैश्च प्रबोधितः । चकार रावणः कर्म सकलं तनुगोचरं ॥ ५७ ॥ भ्रत्वेव भुवनं सर्वमदृष्टवान्यं समाश्रयं । पुनः शरणमायातो रावणं पद्मबांधवः ॥ ५८ ॥ ततो नानाशकुंतौघैः कुर्वद्भिर्मधुरस्वरं । संभाषणमिवाभ्रष्टमर्यादां कुर्वतीममूं ॥ ५९ ॥ ददर्श नर्मदां फेनपटलैः सस्मितामिव । शुद्धस्फटिकसंकाशसलिलां द्विपभूषितां ॥ ६० ॥ तरंगभूविलासाढ्यामावर्तीत्तमनाभिकां । विस्फुरच्छफरीनेत्रां पुलिनोरुकलत्रिकां ।। ६१ ॥ नानापुष्पसमाकीर्णां विमलोदकवाससं । वरांगनामिवालोक्य महाप्रीतिमुपागतः ॥ ६२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org