SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणाम् । २४७ एकादशं पर्व। भावयन्निति सहस्रदीधिति योऽनरण्यनृपति शृणोति च ॥ संयतं श्रवणशीलसंपदा स वजत्यमलतां यथा रविः ॥ १७९ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते दशग्रीवप्रस्थाने सहस्ररश्म्यनरण्यश्रामण्याभिधानं नाम दशर्म पर्व । एकादशं पर्व । अथ कैलाशसंक्षोभो यान्यान्मानवतो नृपान् । शृणोति धरणीयातांतांस्तान्सर्वाननीनमत् ॥१॥ वशीकृतैश्च सन्मानं प्रापितैर्वेष्टितो नृपैः । पश्यन् स्फीतपुरामुवी सभूमश्चक्रवद्यथा ॥२॥ नानादेशसमुत्पनै नाकारैर्नरैर्वृतः । नानाभूषाधरैर्नानाभाषैर्विविधवाहनैः ॥ ३ ॥ कारयन् शीर्णचैत्यानां संस्कारान् परमां तथा । पूजां देवाधिदेवानां जिनेंद्राणां सुभावितां ॥४॥ ध्वंसयन् जिनविद्वेषकारिणः खलमानवान् । दुर्विधान् करुणायुक्तो धनेन परिपूरयन् ॥५॥ सम्यग्दर्शनसंशुद्धावत्सलः पूजयञ्जनान् । प्रणमन्-श्रमणान् भक्त्या रूपमात्रश्रितानपि ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy