SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । दशमं पर्व । ततः क्रमात्तयोः पुत्रौ जातौ रूपमहोत्सवौ । ज्यायानंगोनुजस्तस्य प्रथितोऽगदसंज्ञया ।। १२ ।। अद्यापि नैव निर्लज्जचक्रांकस्य शरीरजः । परित्यजति तत्राशां धिङ्मनोभवदूषितां ।। १३ ।। दध्यौ चेतसि कामाग्निदग्धो निस्सारमानसः । केनोपायेन तां कन्यां लप्स्ये निर्वृतिदायिनी १४ कदा नु वदनं तस्या शोभाजितनिशाकरं । चुंविष्यामि स्फुरच्छोणच्छविछन्नरदच्छदं ।। १५ ।। क्रीडिष्यामि कदा सार्धं तया नंदनवक्षसि । कदा वाप्स्यामि तत्पीनस्तनस्पर्शसुखोत्सवम्॥१६॥ इत्यभिधावतस्तस्य तत्समागमकारणं । सस्मार शेमुखीविद्यामाकृतेः परिवर्तिनीं ॥ १७ ॥ हिमवतं ततो गत्वा गुहामाश्रित्य दुर्गमां । आराधयितुमारेभे दुःखितं प्रियमित्रवत् ॥ १८ ॥ अत्रांतरे विनिष्क्रांतो दिशो जेतुं दशाननः । बभ्राम धरणीं पश्यन् गिरिकांतारभूषितां ॥ १९ ॥ जित्वा विद्याधराधीशान द्वीपांतरगतान्वशी । भूयोऽन्ययोजयत्स्वेषु राष्ट्रेषु पृथुशासनः ॥ २० ॥ वशीकृतेषु तस्यासीत् खगसिंहेषु मानसं । पुत्रेष्विव महेच्छा हि तुष्यंत्यानतिमात्रतः ।। २१ ।। रक्षसामन्वये योभूद्योवा शाखामृगान्वये । उद्धलः खेचराधीशः सर्वं तं वशमानयत् ॥ २२ ॥ महासाधनयुक्तस्य व्रजतोऽस्य विहायसा । वेगमारुतमप्यन्ये खेचराः सोदुमक्षमाः ॥ २३ ॥ संध्याकारा सुवेलाच हेमापूर्णा सुयोधनाः । हंसद्वीपाः परिह्लादा इत्याद्या जनताधिपाः ॥ २४ ॥ २३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy