________________
पद्मपुराणम् ।
२३५
दशमं पर्व । गृहीतप्राभृताः गत्वा नेमुस्तं मूर्धपाणयः । आश्वासिताः सुवाणीभिस्तथावसितसंपदः ॥ २५ ॥ श्रिता येऽपि सुदुर्गाणि स्थानान्यंबरगाधिपाः । नमितास्तेऽपि तत्पादौ शोभनैः पूर्वकर्मभिः ॥ बलानां हि समस्तानां बलं कर्मकृतं परं । तस्योदये स के जेतुं न समर्थो नरेश्वर ॥ २७ ॥ अथेंद्रजितये गंतु प्रवृत्तेनामुना स्मृतः । स्वसात्यंतघनस्नेहात्पारंपर्याच तत्पतिः ॥ २८ ॥ प्रस्थितश्च स तं देशं श्रुतः स्वस्त्रा समुत्कया । प्राप्तः स्थितः समासने देशे प्रीतिसमुत्कटः ॥२९॥ ततश्चरमयामादौ क्षपायाः शयितः सुखं । कैकसेय्या परप्रीत्या बोधितः खरदूषणः ॥३०॥ ततो निर्गत्य तेनासावलंकारोदयात्पुरात् । दशवक्त्रो महाभक्त्या पूजितः परमोत्सवैः ।। ३१ ॥ रावणोऽपि स्वसुः प्रीत्या चक्रेऽस्य प्रतिपूजनं । प्रायो हि सोदरस्नेहात्परः स्नेहो न विद्यते ॥ चतुर्दशसहस्राणि कामरूपविकारिणां । दर्शितानि दशास्याय तेन व्योमविचारिणां ॥ ३३ ॥ दूषणाख्यश्च सेनायाः पतिरात्मसम कृती | शूरो गुणसमाकृष्टसर्वसामंतमानसः॥ ३४ ॥ एतैश्च प्रस्थितः साकं कृतसस्त्रिकौशलैः । आवृतो सुरसंघातैः पातालाचामरो यथा ॥ ३५ ॥ हिंडवो हैहि डोडिंवो विकटस्त्रिजटो हयः । माकोटस्त्रिजटष्टंकः किष्किंधाधिपतिस्तथा ॥ ३६ ॥
१ उपचारैः परिप्राप्तो रत्नार्थादिभिरादरात्, पाठांतरमिदं ।
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org