________________
पद्मपुराणम् ।
२३३
दशमं पर्व। दशमं पर्व। एवं तावदिदं पर्व तव श्रेणिक ! वेदितं । अतःपरं प्रवक्ष्यामि श्रृणु ते परमीहितं ॥१॥ हुताशनशिखस्यासीत्सुता द्योतिःपुरे वरा । ड्रीसंज्ञायां समुत्पन्ना योषिति स्त्रीगुणान्विता ॥२॥ सुतारेति गता ख्यातिं शोभया सकलावनौ । पद्मवासं परित्यज्य लक्ष्मीरिव समागता ॥ ३ ॥ चक्रांकतनयोऽपश्यत्पर्यटन् स्वेच्छयान्यदा । तां साहसगतिर्नाम्ना दुष्टानुमतिसंभवः ॥४॥ ततोऽसौ कामशल्येन शल्यितोऽत्यंतदुःखितः । सुतारां मनसा नित्यमुवाहोन्मत्तविभ्रमः ।। ५ ॥ उपर्युपरि यातैश्च तां स दूतैरयाचत । सुग्रीवोऽपि तथैवैतां याचतेस्म मनोहरां ॥ ६ ॥ द्वैधीभावमुपेतेन हुताशनशिखेन च । पृष्टो मुनिमहाज्ञानो निश्चयव्याकुलात्मना ॥ ७ ॥ युक्तं च मुनिचंद्रेण न साहसगतिश्चिरं । जीविष्यति चिरायुस्तु सुग्रीवः परमोदयः ॥ ८ ॥ चक्रांकपक्षसंप्रीत्या हुताशस्तु विनिश्चयः । दीपौ वृषौ गजेंद्रौ च निमित्तमकरोद् दृढं ॥९॥ ततो मुनिगिरं ज्ञात्वा नियताममृतोपमा । सुग्रीवाय सुता दत्ता नीत्वा पित्रा समंगलं ॥ १० ॥ कृत्वा पाणिगृहीतां तां सुग्रीवः पुण्यसंचयः । इयाय कामविषयं सारवत्तं मुसंमदं ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org