SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २३२ नवमं पर्व। अशक्नुवंस्ततः कर्तुं प्रणयस्यास्य भाजनं । गृहीतलाघवं लेभे कृच्छात्कैलासकंपनः ॥ २१३ ॥ कृत्वांजलिं नमस्यां च संभाषितदशाननः । जगाम धरणःस्थानं निजं प्रकटसंमदः ॥ २१४ ॥ मासमात्रं दशास्योऽपि स्थित्वा कैलाशमूर्धनि । प्रतिपत्य जिनं देशं प्रययावभिवांछितं ॥२१५॥ विज्ञाय मनसः क्षोभादात्मानं बद्धदुष्कृतं । प्रायश्चित्तं गुरोर्देशं गत्वा वालिरशिश्रियत् ॥२१६॥ निर्गतस्वांतशल्यस्य बभूव सुखितः पुनः । वालिनियमनं कृत्वा यथा विष्णुमहामुनिः ॥२१७॥ - चारित्रादुप्तितो धर्मादनुप्रेषणतः सदा । समितिभ्यः पराभूतेः परीषहगणस्य च ।। २१८ ॥ महासंवरमासाद्य कर्मापूर्वमनिर्जयन् । नाशयंस्तपसा चात्तप्रातःकेवलसंगमं ॥ २१९ ॥ कर्माष्टकविनिर्मुक्तो ययौ त्रैलोक्यमस्तकं । सुखं निरुपम यस्मिन्नवसानविवर्जितं ॥ २२० ॥ इंद्रियाणां जये शक्तो यस्तेनास्मि पराजितः । इति विज्ञाय लंकेशः साधूनां प्रणतोऽभवत् २२१ सम्यग्दर्शनसंपन्नो दृढभक्तिर्जिनेश्वरे । अतृप्तः परमैर्भोगैरतिष्ठत् स यथेप्सितं ।। २२२ ॥ वालिचेष्टितमिदं शृणोति यो । भावतत्परमतिः शुभो जनः ॥ नैष याति परतः पराभवं । प्राप्नुते च रविभासुरं पदं ॥ २२३ ॥ इत्यार्षे रविषेणाचार्यप्रोक्त पद्मचरिते वालिनिर्वाणाभिधानं नाम नवमं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy