________________
पद्मपुराणम् ।
२३१
नवमं पर्व।
जिनवंदनया तुल्यं किमन्यद्विद्यते शुभं । वस्तु यत्प्रार्थयिष्येऽहं भवंतं दातुमुद्यतं ॥ २० ॥ ततो निगदितं नागपतिना श्रृणु रावण ? । जिनेंद्रवंदनातुल्यं कल्याणं नैव विद्यते ॥ २०१॥ ददाति परिनिर्वाणसुखं या समुपासिता । जिननत्या तया तुल्यं न भूतं न भविष्यति ॥२०२॥ ततो दशमुखेनोक्तं नास्ति चेजिनवंदनात् । अधिकं किंत्वतः प्राप्ते तस्मिन्याचे महामते ॥२०३॥ उक्तं च नागपतिना सत्यमेतत्सुचेष्टितं । असाध्यं जिनभक्तेर्यत्साधु तन्नैव विद्यते ॥ २०४॥ त्वादृशा मादृशा ये च वासवाद्यैश्च सन्निमाः । संपद्यते सुखाधारा सर्वे ते जिनभक्तितः॥२०५॥ आस्तां तावदिदं स्वल्पं व्याघाति भवजं सुखं । मोक्षजं लभ्यते भक्त्या जिनानामुत्तमं सुखं२०६ नितांतं यद्यपि त्यागी महाविनयसंगतः । वीर्यवानुत्तमैश्वर्यो भवान् गुणविभूषितः ॥ २०७॥ मद्दर्शनं तथाप्येतत्तव माभूदनर्थकं । अमोघमिति याचेऽहं भवंतं ग्रहणं प्रति ॥ २०८ ॥ अमोघविजयानाम शक्तिं रूपविकारिणीं । विद्यां गृहाण लंकेश मावधीः प्रणयं मम ॥२०९ ॥ एकया दशया कस्य कालो गच्छति सज्जनः । विपदोऽनंतरा संपत् संपदोऽनंतरा विपत् ॥२१०॥~ अतो विपदि जातायामासन्नायां कुतोऽपि ते । कुर्वती परसंवाधं पालिकेयं भविष्यति ॥२११॥ आसतां मानुषास्तावद्विभ्यत्यस्याः सुरा अपि । वन्हिज्वालापरीतायाः शक्तेर्विपुलशक्तयः॥२१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org