________________
२३०
पद्मपुराणम् ।
नवमं पर्व । विमलाय नमोधा नमोऽनंताय संततं । नमो धर्माय सौख्यानां नमो मूलाय शांतये ॥१८७॥ नमः कुंथुजिनेंद्राय नमोऽरस्वामिने सदा । नमो मल्लिमहेशाय नमः सुव्रतदायिने ॥ १८८ ॥ अन्येभ्यश्च भविष्यद्भयो भूतेभ्यश्च सुभावतः। नमोऽस्तु जिननाथेभ्यः श्रवणेभ्यश्च सर्वदा॥१८९॥ नमः सम्यक्त्वयुक्ताय ज्ञानायकांतनाशिने । दर्शनाय नमोऽजस्रं सिद्धेभ्योऽनारतं नमः ॥१९०॥ पवित्राण्यक्षराण्येव लंकास्वामिनि गायति । चलितं नागराजस्य विष्टरं धरणश्रुतेः ॥ १९१॥ ततोऽवधिकृतालोकस्तोषविस्तरितेक्षणः । स्फुरत्फणामणिच्छायादूरध्वस्ततमश्चयः ॥ १९२ ॥ स कलामलतारेशप्रसन्नमुखशोभितः । पातालादुद्ययौ क्षिप्रं नागराजः सुमानसः ॥ १९३ ॥ विधाय च नमस्कारं जिनेंद्राणां विधानतः । पूजां च ध्यानसंजातसमस्तद्रव्यसंपदं ॥ १९४॥ जगाद रावणं साधो ! साधु गीतमिदं त्वया । जिनेंद्रस्तुतिसंबद्धं रोमहर्षणकारणं ॥१९५॥ पश्य तोषेण मे जातं पुलकं घनकर्कसं । पातालस्य यच्छांतिं नाद्यापि प्रतिपद्यते ॥ १९६ ॥ राक्षसेश्वर ! धन्योऽसि यस्तोषि जिनपुंगवान् । बलादाकृष्य भावेन त्वदीयेनाहमाहृतः।।१९७।। वरं वृणीष्व तुष्टोऽसि तव भक्त्या जिनान्प्रति । ददाम्यभीप्सितं वस्तु सद्यः कुनरदुर्लभं ॥१९८॥ ततः कैलाशकंपन प्रोक्तोऽसौ विदितो मम । धरणो नागराजस्त्वं पृष्टस्तावनिवेदय ॥ १९९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org