________________
पद्मपुराणम् ।
२२९
नवमं पर्व।
अनादरेण विक्षिप्य चंद्रहासमसिं भुवि । आवृतो निजनारीभिश्चक्रे जिनवरार्चनं ॥ १७४ ॥ निष्कृष्य च स्नसातंत्री भुजे वीणामवीवहत् । भक्तिनिर्भरभावश्च जगौ स्तुतिशतैर्जिनं ॥ १७५ ॥ नमस्ते देवदेवाय लोकालोकावलोकिने । तेजसातीतलोकाय कृतार्थाय महात्मने ॥ १७६ ॥ त्रिलोककृतपूजाय नष्टमोहमहारये । वाणीगोचरतामुक्तगुणसंघातधारिणे ॥ १७७ ॥ महैश्वर्यसमेताय विमुक्तपथदेशिने । सुखकाष्ठासमृद्धाय दूरीभूतकुवस्तवे ॥ १७८ ॥ निश्रेयसस्य भूतानां हेतवेऽभ्युदयस्य च । महाकल्याणमूलाय वेधसे सर्वकर्मणां ॥ १७९ ॥ ध्याननिर्दग्धपापाय जन्मविध्वंसकारिणे । गुरवे गुरुमुक्ताय प्रणतायानतात्मने ॥ १८० ॥ आद्यंतपरिमुक्ताय संततायंतयोगिने । अज्ञातपरमार्थाय परमार्थावबोधिने ॥ १८१ ॥ सवेशून्यप्रतिज्ञाय सवास्तिक्योपदेशिने । सर्वक्षणिकपक्षाय कृत्स्ननित्यत्वदेशिने ॥ १८२ ॥ पृथक्त्वैकत्ववादाय सर्वानेकांतदेशिने । जिनेश्वराय सर्वस्मै एकस्मै शिवदायिने ॥ १८३ ।। ऋषभाय नमो नित्यमजिताय नमोनमः । संभवाय नमो सक्तमभिनंदनरूढ़ये ॥ १८४ ॥ नमः सुमतये पद्मप्रभाय सततं नमः । सुपाश्र्थाय नमः शश्वनमश्चंद्रसमत्विषे ॥ १८५ ॥ नमोस्तु पुष्पदंताय शीतलाय नमोनमः । श्रेयसे वासुपूज्याय नमो लब्धात्मतेजसे ॥ १८६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org