________________
पद्मपुराणम् ।
२२६
नवमं पर्व।
महावायुवनेनाथ ध्वांतं कृत्वा समंततः । प्रविष्टो धरणी भित्त्वा पातालं पातकोद्यतः ॥१३५॥ आरेभे च समुद्धतुं भुजे रिपराक्रमः । क्रोधप्रचंडरक्ताक्षो हुंकारमुखराननः ।। १३६ ॥ ततो विषकणक्षेपिलंबमानोरगाधरः । केसरिक्रमसंप्राप्तभ्रश्यन्मत्तमतंगजः ॥ १३७॥ संभ्रांतनिश्चलोत्कर्णसारंगककदंबकः । स्फुटितोद्देशनिष्पीतत्रुटिताखिलनिर्झरः ॥ १३८ ॥ पर्यस्यदुद्धतारावमहानोकहसंहतिः । स्फुटीकृतशिलाजालसंधिसत्वैः सदुश्चरः ।। १३९ ॥ पतद्विकटपाषाणरवापूरितविष्टपः । चलितश्चालयन्क्षोणी भृशं कैलाशपर्वतः ॥ १४ ॥ स्फुटितावनिपीतांबुः प्राप शोषं नदीपतिः । ऊहुः स्वच्छतया भुक्त्वा विपरीतं समुद्रगाः १४१ जस्ता व्यलोकयन्नाशाः प्रमथाः पृथुविस्मया । किं किमेतदहो हाहाहुंहीतिप्रसृतस्वराः ॥१४२॥ जहरप्सरसो भीता लताप्रवरमंडपात् । वयसां निवहाः प्राप्ताः कृतकोलाहला नभः ॥ १४३ ।। पातालादुत्थितैः क्रूरैरट्टहासैरनंतरैः । दशवक्त्रैः समं दिग्भिः पुस्फोटे च नभस्तलं ॥ १४४ ॥ ततः संवतेकाभिख्यवायुनेवाकुलीकृते । भुवने भगवान्वालिरवधिज्ञातराक्षसः ॥ १४५ ॥ अप्राप्तः पीडनं स्वस्य धीरः कोपविवर्जितः । तथावस्थितसर्वागश्वेतसीदं न्यवेशयत् ॥ १४६ ॥ कारितं भरतेनेदं जिनायतनमुत्तमं । सर्वरत्नमयं तुंगं बहुरूपविराजितं ॥ १४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org