________________
२२५
पद्मपुराणम् ।
नवमं पर्व। क्वचित्पुलकिताकारं प्रसूनप्रकराचितं । क्वचिदृक्षसटाभारैरुद्धतैर्भाषणाकृति ॥ १२२ ॥ क्वचित्पावनेनैव युक्तं शाखामृगाननैः । क्वचित्खङ्गिकृतस्यंदिसालादिसुरभीकृतं ॥ १२३ ।। क्वचिद्विद्युल्लताश्लिष्टसंभवध्वनिसंतति । क्वचिद्दिवाकराकारशिखरद्योतितांबरं ॥ १२४ ॥ पांडुकस्येव कुर्वाणं विजिगीषां क्वचिद्वनैः । सुरभिप्रसवोत्तुंगविस्तीर्णधनपादपैः ॥ १२५ ॥ अवतीर्णश्च तत्रासावपश्यत्तं महामुनि । ध्यानार्णवसमाविष्टं तेजसा बद्धमंडलं ॥ १२६ ॥ आशाकरिकराकारप्रलंवितभुजद्वयं । पन्नगाभ्यामिवाश्लिष्टं महाचंदनपादपं ॥ १२७॥ आतापनशिलापीठमस्तकस्थं सुनिश्चलं । कुर्वाणं प्राणिविषयं संशयं प्राणधारिणं ॥ १२८ ॥ ततो वालिरसावेष इति ज्ञात्वा दशाननः । अतीत संस्मरन् वैरं जज्वाल क्रोधवह्निना ॥१२९॥ बद्धा च भृकुटी भीमां दृष्टोष्ठः प्रखरस्वरः । बभाण भासुराकारो मुनिमेवं सुनिर्भयः ॥ १३०॥ अहो शोभनमारब्धं त्वया कर्तुमिदं तपः । यदद्याप्यभिमानेन विमानं स्तंभ्यते मम ॥ १३१ ॥ क्व धर्मः का च संक्रोधो वृथा श्राम्यसि दुमते । इच्छस्येकत्वमाधातुममृतस्य विषस्य च ॥१३२॥ तस्मादपनयाम्येनं दर्पमद्य तवोद्धतं । कैलाशनगमुन्मूल्य क्षिपाम्यब्धौ समं त्वया ॥ १३३ ॥ ततोऽसौ सर्वविद्याभिर्ध्याताभिस्तत्क्षणाद्वृतः । विकृत्य सुमहद्रूपं सुरेंद्र इव भीषणं ॥ १३४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org