________________
पद्मपुराणम् ।
२२४
नवमं पर्व। कोऽप्ययं सुमहान्वीरः सुघोरं धारयस्तपः । मुक्तिमाकांक्षति क्षिप्रं वृत्तांतोऽयमतोऽभवत्।।१०९॥ निवर्तयाम्यतोदेशाद्विमानं निर्विलंबितं । मुनेरस्य प्रभावेन यावन्नायाति खंडशः ॥ ११०॥ श्रुत्वा मारीचवचनमथ कैलाशभूधरं । इक्षांचके यमध्वंसः स्वपराक्रमगर्वितः॥ १११ ।। नानाधातुसमाकीर्ण गणैर्युक्तं सहस्रशः । सुवर्णघटनारम्यं पदपंक्तिभिराचितं ॥ ११२ ॥ प्रकृत्यनुगतैर्युक्तं विकारैः विलसंयुतं । स्वरैर्बहुविधैः पूर्ण लब्धव्याकरणोपमं ॥ ११३॥ तीक्ष्णैः शिखरसंघातैः खंडयंतमिवाधरं । उच्छर्पच्छीकरैः स्पष्टं हसंतमिव निझरैः ॥ ११४ ॥मकरंदसुरामत्तमधुव्रतपरैधितं । शालौघवितताकाशं नानानोकहसंकुलं ॥ ११५ ॥ सर्वर्तुजमनोहारिकुसुमादिभिराचितं । चरत्प्रमोदवत्सत्वसहस्रसदुपत्यकं ।। ११६ ॥ औषधत्रासदूरस्थव्यालजालसमाकुलं । मनोहरेण गंधेन दधतं यौवनं सदा ॥ ११७ ॥ शिलाविस्तीर्णहृदयं स्थूलवृक्षमहाभुजं । गुहागंभीरवदनमपूर्वपुरुषाकृतिं ॥ ११८ ॥ शरत्पयोधराकारतटसंघातसंकटं । क्षीरेणेव जगत्सर्वं क्षालयंतं करोत्करैः ॥ ११९ ॥ कचिद्विस्रब्धसंसुप्तमृगाधिपदरीमुखं । क्वचित्सुप्तशयुश्वासवाताघूर्णितपादपं ॥ १२० ॥ क्वचित्परिसरत्क्रीडन् कुरंगककदंबकं । क्वचिन्मत्तद्विपत्रातकलिताधित्यकावनं ॥ १२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org