SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २२३ पद्मपुराणम् । नवमं पर्व। उच्चैरुच्चैर्गुणस्थानसोपानारोहणोद्यतः । मिन्नाध्यात्माखिलग्रंथग्रंथिग्रंथविवर्जितः ॥ ९६ ॥ श्रुतेन सकलं पश्यन् कृत्याकृत्यं महागुणः । महासंवरसंपन्नः शातयन्कर्मसंततिं ॥ ९७ ॥ प्राणधारणमात्रार्थ भुंजानः सूत्रदेशितं । धर्मार्थ धारयन्प्राणान् धर्म मोक्षार्थमर्जयन् ॥ ९८ ॥ आनंदं भव्यलोकस्य कुर्वन्नुत्तमविक्रमः । चरितेनोपमानत्वं जगामासौ तपस्विनां ॥ ९९ ॥ दशग्रीवाय सुग्रीवो वितीर्य श्रीप्रभा सुखी । चकारानुमतस्तेन राज्यमागतमन्वयात् ॥ १० ॥ विद्याधरकुमार्यो या द्यावाभूमौ मनोहरा । दशाननः समस्तास्ता परिणिन्ये परिक्रमात्॥१०१॥ नित्यालोकेऽथ नगरे नित्यालोकस्य देहजां । श्रीदेवीलब्धजन्मानं नाम्ना रंभावली सुतां॥१०२॥ उपयम्य पुरीं यातो निजां परमसंमदः । नभसा मुकुटन्यस्तरत्नरश्मिविराजितां ॥ १०३ ॥ सहसा पुष्पकं स्तंभमारमानसचंचलं । मेरोरिव तटं प्राप्य सुमहद्वायुमंडलं ॥ १०४ ॥ तस्योच्छिन्नगतेः शब्दभन्ने घंटादिजन्मनि । वैलक्ष्यादिव संजातं मौनं पिंडिततेजसः ।। १०५॥ भग्नप्रवृत्तिमालोक्य विमानं कैकसीसुतः । कः कोऽत्र भो इति क्षिप्रं बभाण क्रोधदीपितः॥१०६॥ मारीचस्तत आचक्षौ सर्ववृत्तांतकोविदः । शृणु देवैष कैलाशे स्थितः प्रतिमया मुनिः ॥ १०७॥ आदित्याभिमुखस्तस्य करानात्मकरैः किरन् । समे शिलातले रत्नस्तंभाकारोऽवतिष्ठते ॥१०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy