________________
२२२
पद्मपुराणम्।
नवमं पर्व। पादद्वयं जिनेंद्राणां भवनिर्गमकारणं । प्रणम्य कथमन्यस्य क्रियते प्रणतिर्मया ॥ ८३ ॥ प्रबुद्धेन सता चेयं कृता संस्था मया पुरा । अन्यं न प्रणमामीति जिनपादाब्जयुग्मतः ॥ ८४॥ भंगं करोमि नास्थाया न च प्राणिनिपातनं । गृह्णामि संगनिर्मुक्तां प्रव्रज्यां मुक्तिदायिनी॥४५॥ यौ करौ वरनारीणां कृतौ स्तनतटोचितौ । भुजौ चालिंगिनौ चारुरत्नकेयूरलक्षणौ ॥८६॥ अरातेयः प्रयुक्त तौ पुरुषोंजलिबंधने । ऐश्वर्य कीदृशं तस्य जीवितं वा हतात्मनः ॥ ८७॥ इत्युक्त्वाहूय सुग्रीवमुवाच शृणु बालक । कुरु तस्य नमस्कारं मा वा राज्यप्रतिष्ठितः ॥ ८८॥ म्वसारं यच्छ मा वास्मै न ममानेन कारणं । एषोऽस्मि निर्गतोऽद्यैव पथ्यं यत्तव तत्कुरु।।८९॥ इत्युक्त्वा निर्गतो गेहाद्रभूव च निरंवरः । पार्श्वे गगनचंद्रस्य गुरोर्गुणगरीयसः ॥९॥ परमार्थहितस्वांतः संप्राप्तपरमोदयः । एकभावरतो वीरः सम्यग्दर्शननिर्मलः ॥ ९१॥ सम्यग्ज्ञानाभियुक्तात्मा सम्यक्चारित्रतत्परः । अनुप्रेक्षाभिरात्मानं भावयन्मोहवर्जितः॥९२ ॥ सूक्ष्मासुमद्वियुक्तासु धर्मानुगुणभूमिषु । मुनिभिर्विमलाचारैः सेवितासु महात्मभिः ॥९३ ॥ विहरन् सर्वजीवानां दयमानः पिता यथा । बाह्येन तपसांतस्थं वर्द्धयन् संततं तपः॥ ९४ ॥ आवासतां महर्डीनां परिप्राप्तः प्रशांतधीः । तपःश्रिया परिश्वक्तः परया कांतदर्शनः ॥ ९५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org